पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
अष्टमः सर्गः ।

मुरू पीवरावूरू एव कर्तारौ समुल्लसन्त्या स्फुरन्त्या भासा निजकान्त्याऽन्तर्दधतुः छादितवन्तौ । तदेतद्भूषणमिति भावः । अत्र दुकूलस्योरूच्छादकत्वेऽपि तदभा- वोक्तेरसंबन्धेऽपि संबन्धरूपातिशयोक्तिः । तदपेक्षया चोर्वोर्दुकूलानाच्छादक- योराच्छादकत्वोक्तेरसंबन्धे संबन्धरूपातिशयोक्त्यानुप्राणितेति सजातीयसंकरः, तदनुप्राणितश्च विषमालंकार इति विजातीयसंकरः । तेन चोर्वोर्लोकोत्तरं लावण्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ६५ ॥

  वासांसि न्यवसत यानि योषितस्ताः
   शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
  अत्याक्षुः स्नपनगलज्जलानि यानि
   स्थूलाश्रुतिभिररोदि तैः शुचेव ॥ ६६ ॥

 वासांसीति ॥ ताः योषितो यानि वासांसि न्यवसत निवसितवत्यः । 'वस आच्छादने' इति धातोः कर्तरि लङ् । शुभ्राभ्राणां द्युतिरिव द्युतिर्येषां तैर्वा- सोभिर्मुदा नारीनिवसनानन्देनाहासीव हसितमिव । भावे लुङ् । स्नपनेन गल- ज्जलानि स्रवत्तोयानि यानि वासांसि अत्याक्षुस्त्यक्तवत्यः तैः शुचा स्थूला अश्रु- स्नुतिर्येषां तैररोदीव रोदनं कृतमिव । भावे लुङ् । अत्र धावल्यगुणजलगलन- क्रियानिमित्तयोर्हासरोदनक्रिययोः सजातीयोत्प्रेक्षयोः संकरः ॥ ६६ ॥

  आर्द्रत्वादतिशयिनीमुपेयिवद्भिः
   संसक्तिं भृशमपि भूरिशोऽवधूतैः ।
  अङ्गेभ्यः कथमपि वामलोचनानां
   विश्लेषो बत नवरक्तकैः प्रपेदे॥ ६७॥

 आर्द्रत्वादिति ॥ आर्द्रत्वाजलेन प्रेम्णा च सरसत्वादतिशयिनीमतिशय- वती संसक्तिं संश्लेषं, परिचयं चोपेयिवद्भिः प्राप्तवद्भिः अत एव भृशं भूरिशो बहुशोऽवधूतैर्निरस्तैरपि, अन्यत्र निष्कासितैरपि नवरक्तैरेव नवरक्तकैः नूतनर क्तवस्त्रैः, नवानुरागिभिश्च वामलोचनानां सुदृशामङ्गेभ्यो विश्लेषः बत खेदे कथ- मपि प्रपेदे प्राप्तः । एकत्रातिश्लेषादन्यत्रातिपरिचयाच्चेति भावः । अत्यासक्ताः कामिनो धनपरायणाभिर्वेश्याभिरवधूताः कथंचिन्मुञ्चन्तीत्यर्थान्तरप्रतीतिः । इह विशेष्यस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो ध्वनिरेव ॥ ६७ ॥

  प्रत्यंसं विलुलितमूर्धजा चिराय
   स्नार्द्ं, वपुरुदवापयत् किलैका ।
  नाजानादभिमतमन्तिकेऽभिवीक्ष्य
   खेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ ६८ ॥

 प्रत्यंसमिति ॥ एका स्त्री प्रत्यंसमंसयोः । विभक्त त्त्यर्थेऽव्ययीभावः । विलुलि-

तमूर्धजा, विकीर्णकेशा सती स्नानार्दं वपुः चिराय चिरमुदवापयन्निरवापयत् ।