पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
नवमः सर्गः ।

इत्येवंरूप इयानेतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु, किमन्यैरित्यर्थः । कुसुमेषुणा कामेन शून्यो यदि न स्यात् । अन्यथा उद्विजितानामिव कनकभूष- णमपि भारायत एवेति भावः । एतेन विच्छित्याख्य आलम्बनचेष्टारूप उद्दीपन- विभाव उक्तः । 'स्तोकभूषणयोगेऽपि विच्छित्तिरिति गद्यते' इति लक्षणात् । अत्र स्नानताम्बूलादिपदार्थान्वितविशेषणगत्या अङ्गौष्ठादीनामाकल्पत्वप्रतिपादनार्थहे. तुकं काव्यलिङ्गमलंकारः ॥ ७० ॥

 अथोत्तरसर्गे सूर्यास्तमयादिवर्णनं प्रस्तौति-

  इति धौतपुरंध्रिमत्सरान्सरसि मज्जनेन
   श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ।
  अवलोक्य तदैव यादवानपरवारिराशेः
   शिशिरेतररोचिषाप्यापां ततिषु मनङ्क्तुमीपे ॥ ७१॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
जलविहारवर्णनं नामाष्टमः सर्गः ॥ ८॥

 इतीति ॥ इतीत्थं सरसि मज्जनेन स्नानेन धौतपुरंध्रिमत्सरान् क्षालितमानिनी- मानान् अभीक्ष्णमतिशेतेऽतिशायिनीम् । आभीक्ष्ण्ये णिनिः । श्रियमाप्तवतः अप-मलाङ्गभासो विमलाङ्गकान्तीन् यादवानवलोक्य तदैव शिशिरेतररोचिषा उष्णांशु-नाप्यपरवारिराशेः पश्चिमाब्धेरपां ततिषु पूरेषु मङ्क्तुं प्रवेष्टुमीषे इष्टम् । भावे लिट् । परचेष्टासाक्षात्कारो विषयिणां तादृग्विषयाभिलाषमन्तराधत्त इति भावः । अत्र भानोः कालप्राप्तमज्जनस्य यादवमजनावलोकनहेतुकत्वमुत्प्रेक्ष्यते । अतिशायिनीवृ- त्तम् । 'ससजा भजतोऽतिशायिनी भवति गौ दिगश्वैः' इति छन्दोलक्षणात् ॥७१॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वकषाख्येऽष्टमः सर्गः ॥८॥


नवमः सर्गः।

 अथ सूर्यास्तमयं वर्णयति-

 अभितापसंपदमथोष्णरुचिर्निजतेजसामसहमान इव ।
 पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥१॥

 अभितापेति ॥ अथ मिमङ्खानन्तरमुष्णरुचिः सूर्यो निजतेजसामभितापसं. पदं संतापातिरेकमसहमान इवापराम्बुनिधेः पश्चिमाब्धेः पयसि प्रपित्सुः पतितु- मिच्छुः । पततेः सन्नन्तादुप्रत्ययः 'सनिमीमा-' (७४।५४) इत्यादिना इसा- देशः 'अत्र लोपोऽभ्यासस्य' (७४।५८) इत्यभ्यासलोपः । अस्तगिरिमस्ताद्रिम् ।

पाठा०-१ मविरलाग”.