पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
शिशुपालवधे

'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः । अधिरोढुमभ्यपतदभ्यधावत् । अत्रासहमान इवेति कालप्राप्तस्य पयसि प्रपातस्य निजतेजोऽसहनहेतुकत्वमुत्प्रेक्ष्यते । अस्मिन्सर्गे प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ १ ॥

 गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् ।
 मुहुरन्तराल भुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥२॥

 गतयेति ॥ रतेन रत्यर्थे । 'प्रसितोत्सुकाभ्यां तृतीया च' (२।३।४४) इति सप्तम्यर्थे तृतीया। भृशमुत्सुकतां कालाक्षमत्वलक्षणमौत्सुक्यं दधती योषित् पुरोऽग्रे गवाक्षमुखं गवाक्षद्वारं प्रति गतयाऽपसृतया दृशा अस्तगिरेः सवितुश्चान्तरालभुवं मध्याकाशदेशं मुहुरमिमीत माति स्म । हस्तमात्रमवशिष्टमरत्निमात्रमवशिष्टमि- त्यादिमानकरणेनास्तमयं प्रतीक्षितवतीत्यर्थः। माङो लङि 'श्लौ' (६।१।१०) इति द्विर्भावः 'भृञमित्' (७।४।७६) इत्यभ्यासस्येत्वम् । एतच्चास्तमयप्रतीक्ष- णभ्रमादौत्सुक्यानुभवान्तरोपलक्षणम् । अत्रौत्सुक्यभाववचनात्प्रेयोऽलंकारः॥२॥

 विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
 अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः॥३॥

 विरलेति ॥ परिणतिं परिवृत्तिम् , अन्यत्र जरावस्थां च गतः अत एव विरला अल्पा आतपस्य छविर्यस्य सः, अन्यत्र क्षीणप्रभः । अनुष्णवपुः, अन्यत्र श्लेष्मो- दयादीषदुष्णदेहः । 'अलवणा यवागूः' इतिवदल्पार्थे नञ् प्रयोगः । परितो विपाण्डु एकत्र शुभ्राभ्रपटलच्छन्नत्वादपरत्र पलितैश्च पाण्डुरमभ्रमाकाशमेव शिरो दधदु- द्वहत्परिमन्दं प्रशान्तम् , अर्थग्रहणासमर्थं च सूर्य एव नयनं यस्य स दिवसः शिथिलः शिथिलवृत्तिः, शिथिलाङ्गश्चाभवत् । अत्राभ्रशिर इत्याद्यवयवरूपणाद्दिवस एव स्थविर इत्यवयविरूपकसिद्धेस्तदरूपणादेकदेशवृत्तिरूपकं श्लेषानुप्राणितम् ॥३॥

 अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
 निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः ॥४॥

 अपराह्णेति ॥ अपरोऽपरभागोऽह्णोऽपराह्णो दिनान्तः । 'पूर्वापराधरोत्तरमेक- देशिनैकाधिकरणे' (२।२।१) इत्येकदेशिसमासः 'राजाहःसखिभ्यष्टच्' (५।४। ९१) 'अह्नोऽह्न एतेभ्यः' (५।४।८८) इत्यह्णदेशः 'अह्णोऽदन्तात्' (८|४|७) इति णत्वम् । तस्मिन्नपराह्णे शीतलतरेणानिलेन शनैर्लोलिताश्चालिता लता एवाङ्गु- लयो यस्य तस्मै, अत एव निलयाय निवासायाह्वयते अङ्गुलिसंज्ञया आह्वानं कुर्वा- णायेव स्थितायेत्युत्प्रेक्षा । शाखिने वृक्षाय खगकुलानि पक्षिसङ्घा आकुलास्तुमुला गिर इदमागम्यत इति प्रत्युत्तराणि ददुरिवेत्यनुषङ्गादुत्प्रेक्षा ॥ ४ ॥

 उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
 करजालमस्तसमयेऽपि सतामुचितं खलूच्चतरमेव पदम् ॥५॥

 उपसंध्यमिति ॥ उपसंध्यं संध्यायाः समीपे । समीपार्थेऽव्ययीभावे नपुंसक-