आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा
ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ८७॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
प्रदोषवर्णनं नाम नवमः सर्गः ॥९॥
इत्थमिति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' (५।३।२४) इति थमुप्रत्ययः। सपदि शान्तः शमितो मानः कोप एवान्तरायो याभिस्ताः । 'वा दान्त-' (७।२।२७) इत्यादिना शमेर्ण्य॑न्ताच्छान्तेति निपातः । प्रालेयांशोश्चन्द्रस्य रुचयो नारीः कामि- भिर्घटयितुम् । 'मितां ह्रस्वः' (६।१।९२) 'पर्याप्तिवचनेष्वलमर्थेषु' (३।४।६६) इति तुमुन्प्रत्ययः । कामं प्रकामं समर्था आसन् । दूत्य इवेति भावः । विलस- न्तो मन्मथश्रीविलासा भणितसीत्कारादिमदनातिरेकविकारा याभिस्ताः ह्रीरेव प्रत्यूहो विघ्नस्तस्य प्रशमे निवारणे कुशलाः शेरते आभिरिति शीधवो मदिराः । 'शीङो धुक्' (उ०४७८) इत्यौणादिको धुक्प्रत्ययः । आसां रतिषु आचार्यत्व- मुपदेशं चक्रुः । नर्मसख्य इवेति भावः । अत्र प्रथमार्धे प्रस्तुतचन्द्रभासां मान- शमनकामिघटनपाटवविशेषणसाम्यादप्रस्तुतदूतीत्वप्रतीतेः समासोक्तिः । द्विती- यार्धे तु शीधुष्वारोपितस्याचार्यत्वस्य प्रकृतोपयोगात्परिणामः । तयोः सापेक्षत्वा- त्संकरः । तेन च दूतीनर्मसख्युपमाध्वनिः । उत्तरसर्गे मधुपानरतोत्सववर्णनाया- श्चायमेव प्रस्तावः । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैम्भौं नतौ तो गुरू चेत्' इति लक्षणात् ॥ ८७ ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये नवमः सर्गः ॥९॥
दशमः सर्गः।
आचार्यत्वं रतिषु शीधवश्चक्रुरित्युक्तं तत्प्रपञ्चनायास्मिन् सर्गे मधुपानं तावद्व- र्णयति-
सज्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।
आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥१॥
सजितानीति ॥ अथ पानगोष्ठीप्रस्तावानन्तरं सज्जितानि यावकक्षालनादिना संस्कृतानि सुरभीणि यथायोगं स्वभावसंस्काराभ्यां सुगन्धीनि नयनानि वारि- रुहाणीव, अन्यत्र नयनानीव वारिरुहाणि वासनार्थं क्षिप्तानि तान्युल्लसन्ति येषु तानि तथोक्तानि सुघटितानि सुष्टु मुखैर्योजितानि शोभनसंस्थानवत्तया निर्मि- तानि वा प्रियतमावदनानि यूनां कामिनां सुरायाः पात्रतां पानभाजनतां ययुः । प्रियामुखसंपर्कजनितरसास्वादलोभात्तासां मुखसुरामेव पपुरिति भावः । अत्र वदनेष्वारोप्यमाणायाः पात्रतायास्तादात्म्येन तेषां पानसाधनतापादनेन कृतवद-