पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
शिशुपालवधे

 रूपमिति ॥ अप्रतिविधानमप्रतियत्नमेव मनोज्ञम् । स्वभावसुन्दरमित्यर्थः । रूपमाकृतिः । कार्यं प्रयोजनमनपेक्ष्य विकासि वर्धमानम् । अनौपाधिकमित्यर्थः । प्रेम अकृतकसंभ्रममकृत्रिमसंरम्भं चाटु प्रियवचनं चासां स्त्रीणां रमणेषु विषये कार्मणत्वं वशीकरणकर्मत्वम् । 'वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । तद्युक्तात्कर्मणोऽण् । अगमन् प्राप्तानि । गमेर्लुङ् च्लेरङादेशः । अत्र रूपादिष्वारोप्यमाणस्य कार्मणस्य प्रकृतोपयोगात्परिणामालंकारः ॥ ३७ ॥

 लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।
 मानवञ्चनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ ३८ ॥

 लीलयेति ॥ लावण्यं कान्तिविशेषोऽस्यास्तीति लावणिकं लावण्यवत् । 'अत इनिठनौ' (५।२।११५) इति ठन्प्रत्यये 'ठस्येकः' (७।३।५०) 'यस्येति च' (६।४।१४८) इत्यल्लोपे 'हलस्तद्धितस्य' (६।४।१५०) इति यकारलोपः अन्यत्र तु लवणं पण्यमस्यास्तीति लावणिको लवणव्यवहारी । लवणाट्ठञ् प्रत्ययः । तेन लावणिकेन मानवञ्चनविदाऽहंकारहरणदक्षेण, अन्यत्र परिमाणप्रतारणपटुना सुतनोः स्त्रियाः वदनेन का गौरवाढ्यं गाम्भीर्यसंपन्नमपि,अन्यत्र गुरुत्वयुक्तमपि दयितस्य हृदयं लीलया विलासेनैव तुलयित्वा, अन्यत्रानायासेनैवोन्माय । गुर्वपि लघुतया मीत्वेत्यर्थः । क्रीतं वशीकृतमेव अन्यत्र दानेन स्वीकृतमेव । अत्र विशेषणमहिम्नैव वदने लावणिकत्वस्य, हृदये पण्यत्वस्य च प्रतीतेः समासोक्तिरलंकारः । हृदयस्य प्रतीयमानपण्याभेदेन क्रीतत्वोक्तेरलौकिकहृदयावर्जने लौकिकक्रयव्यवहारसमारोपः ॥ ३८ ॥

 एवं मदानुभावं वर्णयित्वा संप्रति सुरतकेलिवर्णनं प्रस्तौति । तत्र सुरतं द्विविधं-बाह्यमाभ्यन्तरं चेति । बाह्यं च प्रेक्षणभाषणाश्लेषणचुम्बनाद्यनेकभेदभिन्नम् । तत्र दृष्टिविशेषं तावदाह-

 स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।
 संनतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ ३९ ॥

 स्पर्शति ॥ स्पर्शभाजि सुखस्पर्शे विशदा विमला शुभ्रा च या छविः कान्तिस्तया चारौ रम्ये सुरताय कल्पिते रतिसुखदानाय सृष्टे विहारयोग्यतया सज्जीकृते च संनतिमानुकूल्यं सर्वतः साम्यं च दधति दधाने प्रियतमे, शयने च मृगदृशां दृष्टयोऽजस्रमविच्छिन्नं पेतुः पतिताः । युगपदुभयावलोकनादभिलाषं व्यायामासुरित्यर्थः । अत्र प्रियतमशयनयोः प्रकृतयोरेव धर्मसाम्यादौपम्यप्रतीतेः केवलप्रकृतगोचरा तुल्ययोगिता ॥ ३९ ॥

 यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।
 दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥४०॥

 यूनीति ॥ रागेण तरलैश्चपलैरपि । दर्शनोत्सुकैरपीत्यर्थः । यूनि प्रिये तिर्यक्पातिभिस्त्रपया साचि विप्रसारिभिः दीर्घदर्शिभिरायतान्तैः । आलोकनव्यापार-