पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
दशमः सर्गः ।

परैरित्यर्थः । अन्यत्र रागद्वेषचपलैः अत एव तिर्यक्पातिभिः कुटिलवृत्तिभिरपि दीर्घदर्शिभिः । आगामिकार्यज्ञैरित्यर्थः । वधूनां नयनैः श्रुतिगुणेन शब्दग्रहणपाटवेन युतस्य श्रूयतेऽनेनेति श्रवणं श्रोत्रं तस्य लङ्घनमतिक्रमो नाकारि न चक्रे । कर्णान्ते विश्रान्तमित्यर्थः । अन्यत्र तु श्रुतिः श्रवणम् । अभ्यास इति यावत् । सैव गुणस्तेन युतस्य श्रूयत इति श्रवणं शास्त्रं तस्य लङ्घनं नाकारि । रागद्वेषग्रस्तोऽपि शास्त्रज्ञः कदाचिच्छास्त्रातिक्रमाद्बिभेतीति भावः । अयं च व्यवहारो नयनेषु रागतरलैरित्यादिश्लिष्टविशेषणमहिम्ना गम्यत इति समासोक्तिभेदः । इयं च रागदृष्टिरौत्सुक्यानुभावः ॥ ४० ॥

 संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः।
 स्पर्शनेन दयितस्य नतभ्रूरङ्गसङ्गचपलापि चकम्पे ॥ ४१ ॥

 संकथेति ॥ नतभ्रूः स्त्री संकथायां संभाषणे इच्छुरिच्छावत्यपि । 'विन्दुरिच्छुः' (३।२।१६९) इत्युप्रत्ययान्तो निपातः । अभिधातुं संभाषयितुमनीशा अक्षमा बभूव । अप्यर्थश्चशब्दः । दिदृक्षुर्द्रष्टुमिच्छुरपि । दृशेः सन्नन्तादुप्रत्ययः । संमुखी अभिमुखी न बभूव । अङ्गसङ्गचपला गात्रस्पर्शचपलापि दयितस्य स्पर्शनेन चकम्पे कम्पितवती । एते कम्पादयो लज्जासाध्वसानुभावाः । लज्जाविजितमन्मथेयं मुग्धा ॥ ४१ ॥

 अथालिङ्गनं वर्णयति-

 उत्तरीयविनयात्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
 आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या ॥ ४२ ॥

 उत्तरीयेति ॥ अन्या स्त्री उत्तरीयविनयात् कुचांशुकाकर्षणात् । त्रपमाणा तदीक्षणमार्गं तस्य वोढुर्दृष्टिपथं रुन्धती किल आवृण्वतीव, न तु वस्तुत इति किलार्थः । विकटेन विशालेन । 'विशङ्कटं विशालं स्यात्करालं विकटं तथा' इति वैजयन्ती । 'संप्रोदश्च कटच्' (५।२।२९) इति चकाराद्वेः कटच् प्रत्ययः । विवोढुः परिणेतुः वक्षसैव कुचमण्डलं आवरिष्ट आवृतवती कुचावरणव्याजेनालिङ्गितवती । वृञो लुङि तङ् इडागमः । अत्र कुचसंवरणेनालिङ्गनेच्छानिगूहनान्मीलनभेदः । एषा लज्जामन्मथमध्यस्था मध्यमा ॥ ४२ ॥

 अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।
 भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ४३ ॥

 अंशुकमिति ॥ अंशुकमुत्तरीयं हृतवता परिणेत्रा भर्त्रा तन्वोः कृशयोः बाह्वोः स्वस्तिको बन्धविशेषः तेनापिहिते आच्छादिते मुग्धे सुन्दरे कुचाग्रे यस्याः सा तथोक्ता । अचिरोढा नवोढा । भिन्नानि शङ्खस्य वलयानि यस्मिन्कर्मणि तद्यथा तथा रभसाद्वेगात्पर्यरम्भि । गाढमाश्लिष्टेत्यर्थः । रभेर्ण्यन्तात्कर्मणि लुङ् । 'रभेरशब्लिटोः' (७।१।६३) इति नुमागमः । एषा तिरोहितमुग्धा ॥ ४३ ॥

 संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।
 संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥४४॥