पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
दशमः सर्गः ।

 संप्रवेष्टुमिति ॥ योषितः श्लिष्यतामालिङ्गतामिष्टतमानां हृदयं संप्रवेष्टुमीषुरिच्छन्ति स्मेव इति गाढालिङ्गननिमित्ता क्रियास्वरूपोत्प्रेक्षा गुणस्वरूपोत्प्रेक्षा वा विवक्षाभेदात् । अत एवात्मनः स्वान् सततमेव तदन्तर्वर्तिनस्तेषामिष्टतमानां अन्तर्हृदयेष्वेव स्थितान्नाजानन्नूनम् । अन्यथा कथं पुनः प्रवेशेच्छेति भावः । इयमज्ञानोत्प्रेक्षा पूर्वोत्प्रेक्षासापेक्षेति सजातीयसंकरः ॥४८॥

 स्नेहनिर्भरमधत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।
 यूनि गाढपरिरम्भिणि वस्त्रकोपमम्बु ववृषे यदनेन ॥ ४९ ॥

 स्नेहेति ॥ स्नेहनिर्भरं प्रेमरसपूर्णं तैलादिकद्रवद्रव्यपूर्णं च । 'स्नेहोऽस्त्री द्रवहार्दयोः' इति वैजयन्ती । अत एव वधूनां वपुरन्तरार्द्रतां द्रवत्वमधत्त । स्नेहद्रव्यसंपूर्णमन्तराद्रं भवतीति भावः । असंशयं संशयस्याभावः । अर्थाभावेऽव्ययीभावः । कुतः । यद्यस्माद्यूनि पुंसि गाढं परिरम्भत इति परिरम्भिणि गाढाश्लेषिणि सति अनेन वपुषा का वस्त्रं नोपयित्वा परिषिच्य वस्त्रक्नोपम् । क्नूयीधातोर्ण्यन्तात् 'अर्तिह्री-' (७।३।३६) इत्यादिना पुगागमे, 'चेले क्नोपेः' (३।४।३३) इति णमुल् । अम्बु ववृषे । वृषेः कर्मणि लिट् । अन्तरार्द्रस्य निष्पीडनाद्बहिरम्बुस्रावसंभवात्तन्निमित्तेयमन्तरार्द्रत्वोत्प्रेक्षा । प्रियाङ्गसङ्गात् ताः स्विन्ना इति सात्विकोदयोक्तिः ॥ ४९ ॥

 न स्म माति वपुषः प्रमदानामन्तरिष्टतमसंगमजन्मा ।
 यद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥५०॥

 न स्मेति ॥ प्रमदानामिष्टतमसंगमेन जन्म यस्य सः । जन्माद्युत्तरपदत्वाद्व्यधिकरणबहुव्रीहिरिति वामनः । बहुर्विपुलः । 'विपुलानेकयोर्बहुः' इति वैजयन्ती। हर्षो वपुषोऽन्तर्न माति स्म । अत्युद्वेकान्नान्तः संमित इत्युत्प्रेक्षा । कुतः । यद्यस्माद्बहिर्वपुषो बहिर्विकासं वृद्धिमवाप्य तनुरुहाणि रोमाण्यपि व्यानशे व्याप । कर्तरि लिट् । 'अश्नोतेश्व' (७।४।७२) इति नुडागमः । अत्र बहिर्विकासननिमित्तकान्तरमानोत्प्रेक्षा आनन्दरोमाञ्चयोः श्लेषमूलाभेदाध्यवसायातिशयोक्त्यनुप्राणितेति संकरः ॥५०॥

 यत्प्रियव्यतिकरावनितानामङ्गजेन पुलकेन बभूवे ।
 प्रापि तेन भृशमुच्छसिताभिर्नीविभिः सपदि बन्धनमोक्षः॥५१॥

 यदिति ॥ वनितानां स्त्रीणां प्रियस्य भर्तुः व्यतिकरात्संपर्कात् संगमाच्चाङ्गजेनाङ्गव्यापिना पुत्रेण च पुलकेन बभूवे भूतमिति यत् । भावे लिट् । तेन पुलकोदयेन पुत्रोदयेन च भृशमुच्छसिताभिरुच्छिन्नाभिर्मोक्षाशया आश्वसिताभिश्च नीविभिः लक्षणया कटिवस्त्रैः अन्यथा बन्धनशब्देन पौनरुक्त्यात् । सपदि बन्धनमोक्षो ग्रन्थिभेदो निगडमोचनं च प्रापि प्राप्तः । कर्मणि लुङ् । अभ्युदयेषु राजानो बद्धान् मोचयन्तीति भावः । अत्र प्रकृतपुलकनीविगताङ्गजत्वोच्छ्वसितत्वादिविशेषणसाम्यावन्धनमोक्षणसंबन्धाच्च अप्रकृतपुत्रकारागतिप्रतीतेः समासोक्तिरलंकारः ॥५१॥

पाठा०-१ 'प्रमदानां'.