पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
शिशुपालवधे

 अथ चुम्बनक्रीडां वर्णयति-

 ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
 अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ ५२ ॥

 ह्रीति ॥ परिरम्भे आलिङ्गने ह्रीरेव भरस्तस्मादवनतम् । भाराक्रान्तं नमतीति भावः । अर्पितं स्वमुखे निहितमोष्ठ एव दलं पत्रं यस्य तद्योषित आननमेव पद्मं रागवान् रागी अवटुजेषु चरमशिरोरुहेषु । 'अवटुर्घाटा कृकाटिका' इत्यमरः । अवकृष्य । अवटुजाकर्षणेनोन्नमय्येत्यर्थः । मुकुलिताक्षं निमीलितनेत्रं यथा तथा । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच्' (५।४।११३) इति पच् प्रत्ययः । अधासीत् पपौ । धेटो लुङ् 'आदेच-' (६।१।४५) इत्यात्त्वम् । 'विभाषा घ्राधेट्-' (२।४|८७) इति सिचो वैकल्पिके लुगभावे 'अस्तिसिचोऽपृक्ते' (७|३।९६) इतीडागमः । अत्राननोष्ठस्य पद्मदलत्वरूपणात्तत्रानुरागिणो मधुपत्वं च गम्यत इत्येकदेशविवर्ति रूपकम् ॥ ५२ ॥

 पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
 पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ ५३॥

 पल्लवेति ॥ पल्लवेनोपमित्या सादृश्येन यत्साम्यं तेन सपक्षं उभयोरपि पल्लवैकोपमानत्वसाधर्म्यात्सुहृद्भूतमधरो बिम्बमिव तदधरबिम्बमभीष्टे प्रियतमे दष्टवति सति । सह रुजा सरुक् । 'तेन सह-' (२।२।२८) इति बहुव्रीहिः । सहस्य सः । तेन सरुजेव सव्यथेनेव । 'स्त्री रुग्रुजा चोपताप' इत्यमरः । ताराण्युच्चैः क्रोशन्ति । कुतः । लोलानि चलानि वलयानि कङ्कणानि यस्य तेन तरुण्याः करेण पर्यकूजि परिकूजितम् । भावे लुङ् । सुहृद्दुःखाद्दुःखायन्ते सुहृद इति भावः । अत्र कङ्कणद्वारकस्य करकूजनस्य विधूननहेतुकस्य सरुजेवेति रुग्घेतुकत्वमुत्प्रेक्ष्यते ॥ ५३॥

 केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
 ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥ ५४ ॥

 केनचिदिति ॥ केनचिद्रागिणा मधुरं रसवन्तमुल्बणरागमतिरक्तं तथापि विरहेष्वधिकं बाष्पेण विरहोष्मणा तप्तं सुभ्रुव ओष्ठपल्लवमपास्य सरसं सान्द्रशीतमक्षि चुचुम्बे चुम्बितम् । अत्र तप्तत्वरसवत्त्वयोर्विशेषणगत्याधरत्यागाक्षिचुम्बनहेतुकं काव्यलिङ्गद्वयं सापेक्षत्वात्संकीर्यते ॥ ५४ ॥

 एवं बाह्यसुरतमुक्त्वाभ्यन्तरसुरतवर्णनं प्रस्तौति-

 रेचितं परिजनेन महीयः केवलाभिरतदंपति धाम ।
 साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः॥५५॥

 रेचितमित्यादि ॥ परिजनेन रेचितं रिक्तीकृतम् । अत एव केवलावेकाकिनावभिरतौ दंपती जायापती यस्मिंस्तत् । 'दंपती जंपती जायापती भार्यापती

च तौ' इत्यमरः । राजदन्तादिषु जायाशब्दस्य जंभावो दंभावश्च विकल्पान्निपा-