पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
शिशुपालवधे

विधा हस्ता येषां तैरभीष्टैः प्रियतमैः सुभ्रुवां मध्यं मुष्टिमेयमिति मुष्ट्या मातुं शक्यमित्यनुभवात्प्रत्यक्षेण मुष्ट्या मानं कृत्वैव प्रतिपेदे प्रतिबुद्धं न तु प्रसिद्धिमात्रादिति भावः । अमुष्टिमेयस्य मुष्टिमेयत्वोक्तेरतिशयोक्तिभेदोऽलंकारः ॥ ५९॥

 प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।
 औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम्॥६०॥

 प्राप्येति ॥ नाभिरेव नदो ह्रद इति रूपकं तत्र मज्जनं प्राप्याशु निवसनग्रहणाय । वस्त्राकर्षणायेत्यर्थः । स्नातस्य वस्त्रग्रहणं युक्तमिति भावः । प्रस्थितं प्रवृत्तम् । उपनीवि नीविसमीपे प्रायेण तत्र भवमोपनीविकम् । तत्र व्यापृतमित्यर्थः । 'उपजानूपकर्णोपनीवेष्ठक्' (४।३।४०) इति ठक् । वल्लभस्य करं स्त्री आत्मकराभ्यामरुन्ध किल । रोधं नाटितवतीत्यर्थः ॥ ६० ॥

 कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।
 मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ६१ ॥

 कामिन इति ॥ आकुले प्रियकरनिवारणव्यग्रे वधूकरे सङ्गि सक्तं मेखलैव गुणस्तत्र विलग्नं दीर्घसूत्रं आतततन्तुकम् । अत्यायतत्वाद्बहुधा वेष्टितमित्यर्थः । चिरक्रियं च । 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः । एवं कृतो रतस्यैवोत्सवस्य काल- क्षेपः कालविलम्बो येन तत्परिधानमधोंशुकं कामिनोऽसूयामकरोत् । इच्छाविघातादीर्ष्यां जनयामासेत्यर्थः । अत्र करसङ्गादिपदार्थानां विशेषणगत्याऽसूयाहैतुत्वादनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ६१ ॥

 अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य ।
 वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे।।६२॥

 अम्बरमिति ॥ अम्बरं विनयतोऽपसारयतः प्रियपाणेर्योषितः करयोश्च तस्मिन् रोधकयोरिति भावः । कलहस्य वारणां विधातुं निरावरणं कर्तुमिवेति फलोत्प्रेक्षा । कक्ष्यया काञ्च्या । 'कक्ष्या कक्षे वरत्रायां काञ्च्यां गेहप्रकोष्ठयोः' इति वैजयन्ती । 'कक्षया' इति क्षान्तपाठे तु 'कक्षा ग्रहणिकाकाञ्चीप्रकोष्ठगजरज्जुषु' इति क्षान्तेषु विश्वः । वलयैः कङ्कणैश्चाभीक्ष्णं शिशिजे चुक्रुशे । भावे लिट् । 'भूषणानां तु शिक्षितम्' इत्यमरः । द्वयोः कलहायमानयोः पार्श्वस्थाः साक्रोशं निवारयन्तीति भावः । शिञ्जतिरयं तालव्यादिर्न दन्त्यादिः । 'योषेव शिञ्जे इति श्रुतेः ॥ ६२॥

अत्र 'नाभिह्रदमज्जनम्' इति पाठः सर्वत्र दरीदृश्यते, तथा च "-'प्राप्य नाभिह्रद-' इति माघप्रयोगे ह्रदशव्दमपनीय नदशब्दः पठनीय" इति दुर्घटवृत्तिकारवचनं च सुस्फुट प्रत्याययतीमं पाठम् । वृत्तरत्नाकरनारायणभट्टी-व्याख्या छन्दोमञ्जर्यादिछन्दोग्रन्थेषु 'ह्रद'पाठमादृत्योद्धृतोऽयं श्लोकोऽगुरुत्वनिदर्शनार्थ, मल्लिनाथेन च कथं नादृत इत्यपरमाश्चर्यम् । वस्तुतस्तु छन्दोविदां परिभाषया 'ह्रद' पाठादरेऽपि न

गुरुत्वम्, इति संयोगे गुरु' (१।४।११ ) सूत्रे सिद्धान्तकौमुदीविलासः।]