पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
शिशुपालवधे

नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । रम्भास्तम्भकोमलतलेषु कदलीप्रकाण्डपेलवस्वरूपेषु ललनानामूरुषु राजीः रेखाश्चक्रुरेव । ऊरुपरामर्शानान्तरीयकनखस्पर्शमात्रादेव रेखा जाता इत्यर्थः । अत्र कोमलतायाः विशेषणगत्या राजीकरणहेतुत्वाकाव्यलिङ्गभेदः ॥ ६६ ॥

 ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुसुमैः प्रियमेताः ।
 चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥६७॥

 ऊर्विति ॥ एताः स्त्रिय ऊरूमूले चपलेक्षणं लोलचक्षुषं प्रियं यैः वतंसकुसुमैः कर्णावतंसपुष्पैः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । अघ्नन् अताडयन् । हन्तेर्लङ् । 'गमहन-' (६।४।९८) इत्यादिना उपधालोपः । 'हो हन्तेः-' (७।३।५४) इति कुत्वम् । तानि वतंसकुसुमानि सपदि मनो मथ्नातीति मन्मथः । पृषोदरादित्वात्साधुः । तस्य मन्मथस्य कुसुममायुधं यस्येति कुसुमायुध इति यन्नाम तद्यथार्थं चक्रिरे चक्रुः । तदा तेषां तत्कार्यकारित्वादिति भावः । अत्र वतंसेष्वारोप्यमाणस्य मन्मथायुधत्वस्य प्रकृतोपयोगात् परिणामालंकारः ॥ ६७ ॥

 धैर्यमुल्बणमनोभवभावा वामतां च वपुरर्पितवत्यः ।
 व्रीडितं ललितसौरतधार्ष्ट्यास्तेनिरेऽभिरुचितेषु तरुण्यः ॥६॥

 धैर्यमिति ॥ तरुण्यो रमण्यः उल्बण उद्विक्तो मनोभवभावा रतिरागो यासां ता अपि अभिरुचितेषु प्रियेषु धैर्यमौदासीन्यं तेनिरे । वपुः स्वाङ्गमर्पितवत्यो यथेष्टकरणाय दत्तवत्योऽपि वामतां वक्रतां च तेनिरे । ललितं मनोहरं सौरतं सुरतसंबन्धि धार्ष्ट्यं प्रागल्भ्यं यासां तास्तथापि व्रीडितं व्रीडां तेनिरे । इह स्त्रीणां रहसि रागाङ्गार्पणधार्ष्ट्यादिगुणा अध्यागन्तुकतया सहजधैर्यवक्रताव्रीडितैः पुनःपुनः प्रतिबध्यन्त एवेति भावः । अत्र रागादीनां धैर्यादिभिः सह समावेशविरोधस्य सहजागन्तुकाभ्यामाभासीकरणाद्विरोधाभासोऽलंकारः, धैर्यादिगुणसमुच्चयात् समुच्चयालंकारश्चेति संकरः ॥ ६८ ॥

 पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
 कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥१९॥

 पाणीति ॥ 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । करभ इव ऊरुर्यस्याः सा करभोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' (४।१।६९) इत्यूप्रत्ययः । अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा कामिनः पाणिरोधं नीविमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुरं मनोहरं स्मितं गर्भेऽन्तर्वर्ति यासु ता मन्दहासमिश्राः भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीडनादौ सुखातिरेके सत्यपि हारि मनोहारि शुष्करुदितमनश्रुत्वादनार्द्रं कृत्रिमरोदनं च कुरुते स्म । स्त्रीणामेष स्वभावो यदिष्टमप्यनिष्टतया निवारयन्त्य

एव, सुरतसुखमुपभुञ्जत इत्यर्थः । अत्र सुखेऽपि दुःखवदुपचारात्कुट्टमिता-