पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
दशमः सर्गः ।

इति जघनस्य महत्त्वदर्शनादिव । इत्थं विस्मितस्येति शेषः । गम्यमानार्थत्वादप्रयोगः । अत्रोर्व्यामायतत्वनिमित्तकाञ्चीदामकर्तृकं विस्मयपूर्वकजघनमहत्त्वदर्शनमुत्प्रेक्ष्यते ॥ ७७ ॥

 प्राप्यते स गतचित्रकचित्रश्चित्रमार्द्रनखलक्ष्म कपोलैः ।
 दध्रिरेऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः॥७८॥

 प्राप्यत इति ॥ गतानि विमर्दात्प्रमृष्टानि चित्रकचित्राणि तमालपत्ररचनानि येषां तैः कपोलैरार्द्रं यन्नखलक्ष्म तदेव चित्रमिति रूपकम् । प्राप्यते स्म प्राप्तम् । किं च रभसेन रतिसंभ्रमेण च्युतपुष्पा अलकान्ताश्चूर्णकुन्तलाग्राणि स्वेदबिन्दुनेव कुसुमानीति रूपकम् । दधिरे दधुः । धरतेर्भौवादिकाल्लिटि जित्त्वादात्मनेपदम् । स्वेदोऽत्र श्रमानुभवः । 'श्रमः खेदोऽध्वरत्यादेः श्वासस्वेदातिभूमिकृत् ॥ ७८ ॥

 यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् ।
 आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥७९॥

 यद्यदेवेति ॥ रुचिरेभ्यो रमणेभ्यो यद्यदेव चेष्टितं रुरुचे रोचते स्म । प्रियमभूदित्यर्थः । 'रुच दीप्तावभिप्रीतौ च' इति धातोर्लिट् । 'रुच्यर्थानां प्रीयमाणः' (१॥४॥३३) इति संप्रदानत्वम् । सुभ्रुवो रहसि तत्तदकुर्वन् । तथा हि-तरुण्यः अनुकूलं वर्तन्त इत्यानुकूलिकाः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' (४।४।२८) इति ठक् । तासां भावस्तत्ता तया आनुकूलिकतया अनुकूलवर्तितयैव नराणां पुंसां हृदयान्याक्षिपन्त्यावर्जयन्तीत्यर्थान्तरन्यासः ॥ ७९ ॥

 प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य ।
 शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥८॥

 प्राप्येति ॥ दुर्वहः स्तनभरो यासां ताः । एतेनोपरि सुरतं व्यज्यते । अन्यथा विशेषणवैयर्थ्यात् । असिता आयताश्च केशा यासां ता असितायतकेश्यः स्त्रियः । 'स्वाङ्गाच्च - (४।१।५४) इत्यादिना ङीष् । मन्मथरसात् स्मररागात् सुरतस्यातिभूमिं परां काष्ठां प्राप्य । महान्तं सुरतं प्राप्येत्यर्थः । श्रमजलेन स्वेदाम्बुना आर्द्रे ललाटे श्लिष्टाः केशा यस्मिन्कर्मणि तद्यथा तथा शश्रमुरिति सानुभावस्य श्रमभावोक्तिः । भावनिबन्धनात् प्रेयोऽलंकारः ॥ ८॥

 अथ सुरतावसानं वर्णयति-

 संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते ह्रीर्वधूभिरसहा विरहस्य ॥८१॥

 संगताभिरिति ॥ उचितैः परिचितैः प्रियतमैः सह संगताभिर्वधूभिः प्राक् सुरतादौ चलिता गन्तुं प्रचालितापि ह्रीः सखीव चिरेणामुच्यत मुक्ता । न सहत इत्यसहा । पचाद्यजन्तेन नञ्समासः । विरहस्यासहा। विरहमसहमाना सतीत्यर्थः। कर्तृकर्मणोः कृति' (२।३।६५) इति कर्मणि षष्ठी । रतान्ते भूय एव वधूभिः

समगंस्त संगता सखीवेत्येव । संपूर्वाद्गमेर्लुङ् ‘समो गम्यृच्छिभ्याम्-' (१॥३।२९)