पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
शिशुपालवधे

इत्यात्मनेपदम् । 'वा गमः' (१।२।१३) इति सिचः पक्षे कित्त्वाभावात् "अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपो न । सुरतेतरकाले स्त्रीणां लज्जैव भूषणमिति भावः । उपमालंकारः ॥ ८१ ॥

 प्रेक्षणीयकमिव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः ।
 संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ ८२ ॥

 प्रेक्षणीयकमिति ॥ ह्रिया विभङ्गुराः स्खलिता विलोचनपाता दृष्टिपाता येषु ते संभ्रमेण द्रुतं गृहीतेन दुकूलेन छाद्यमानानि वपूंषि अन्तरङ्गाणि येषु ते सुरतान्ताः सुरतावसानानि क्षणं प्रेक्षणीयकं दृश्यमिवासन्नित्युपमा । नाटकादिरूपकेष्वाहार्यकं वस्तु तदृश्यं प्रेक्षणीयकमिति चोच्यते । इहाविर्भावतिरोधानादिना तत्तुल्यत्वम् ॥ ८२ ॥

 अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
 क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥ ८३ ॥

 अप्रभूतमिति ॥ तन्वी कृशाङ्गी अभीष्टतमेन प्रेयसा क्रान्तपल्लवं गृहीताच्चलम् अत एवातनीयसि महीयसि काञ्चिधाम्नि जघने अप्रभूतं छादयितुमपर्याप्तम् । अत एव पिहितश्छादित एकतर एवोरुर्येन तत् क्षौमं दुकूलं आकुलकरा व्यग्रपाणिः सती विचकर्ष कृत्स्नापिधानार्थमाचकर्ष । लज्जानुभावोऽयम् । अत्र क्षौमविशेषाणामाकर्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ८३ ॥

 मृष्टचन्दनविशेषकभक्तिभ्रष्टभूषणकदर्थितमाल्यः ।
 सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ ८४ ॥

 मृष्टेति ॥ मृष्टा प्रमृष्टा चन्दनानां विशेषकाणां तमालपत्राणां च भक्ती रचना येन सः । 'तमालपत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः । भ्रष्टानि भूषणानि यस्मिन् स भ्रष्टभूषणः कुत्सितोऽर्थः कदर्थः। लोकतो विशेष्यलिङ्गत्वम् । 'कोः कत्तत्पुरुषेऽचि' (६|३।१०१) इति कुशब्दस्य कदादेशः । कदर्थानि कृतानि कदर्थितानि दूषितानि माल्यानि येन सः । ततस्तयोर्वैवक्षिकविशेष्यविशेषणभावाद्विशेषणसमासः । एवंभूत उपभोगः सापराध इव पूर्वमण्डनापहारात् कृतापराध इव सुदृशामात्मनैव स्वयमेव । प्रकृत्यादित्वात्तृतीया । मण्डनमासीत् । प्रतिनिधिकरणेन स्वापराधनिरासार्थमिवेत्युप्रेक्षा । स्त्रीणां संभोग एव मण्डनं तदभावे मण्डनान्तरस्याप्यमण्डनत्वादिति भावः ॥ ८४ ॥

 योषितः पतितकाचनकाञ्चौ मोहनातिरभसेन नितम्बे ।
 मेखलेव परितः स विचित्रा राजते नवनखक्षतलक्ष्मीः ॥८५।।

 योषित इति ॥ मोहनातिरभसेन सुरतसंभ्रमेण पतिता काञ्चनी काञ्चनस्य विकारा काञ्चिर्यस्मात्तस्मिन्निर्मेखले योषितो नितम्बे परितः सर्वतो विचित्रा

विविधरचना नवनखक्षतलक्ष्मीर्मेखलेव राजते स्म । उत्प्रेक्षालंकारः ॥ ८५ ॥