पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
शिशुपालवधे

 योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।
 क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ ९० ॥

 योषितामिति ॥ नखलूनं न खलु ऊनम् । नयत् ऊनां न यदूनां इति पदच्छेदः । अतितरामतिमात्रम् । अव्ययादामुप्रत्ययः । नखैर्लूनं क्षतं नखलूनम् । 'ल्वादिभ्यः' ( ८।२।४४) इति निष्ठानत्वम् । तथाप्युज्ज्वलतया औज्ज्वल्येन न ऊनं न न्यूनम् । किं तु समग्रमेवेत्यर्थः । नखक्षतानां कामिनीगात्रमण्डनत्वादिति भावः । अत एवाशु हृदयं प्रियचित्तं क्षोभं विकारं नयत् प्रापयत् । नयतेर्लटः शत्रादेशः । योषितां गात्रं यदूनां यादवानां रागवृद्धिमूनां न्यूनां नाकरोत् खलु । किं तु भूयोऽपि समग्रमेवाकरोदित्यर्थः । अत्र यमकं शब्दालंकारः। औज्ज्वल्यस्य विशेषणगत्या रागवृद्धिहेतुत्वात्काव्यलिङ्गमर्थालंकारः ॥ ९० ॥

  इति मदमदनाभ्यां रागिणः स्पष्टरागा-
   ननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
  अभजत परिवृत्तिं साथ पर्यस्तहस्ता
   रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥९१॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के सुरत-
वर्णनो नाम दशमः सर्गः ॥ १० ॥

 इतीति ॥ इतीत्थं मदमदनाभ्यां स्पष्टरागान् सर्वदा रागित्वेऽपि तदा । ताभ्यामपि व्यञ्जितरागानित्यर्थः । अनवरतरतश्रीसङ्गिनः अविच्छिन्नसुरतसंपल्लम्पटांस्तान् रागिणो रागिण्यश्च रागिणश्च तान् रागिणः । 'पुमान्स्त्रिया' (१।२।६७) इत्येकशेषः । अवेक्ष्य अथावेक्षणानन्तरं पर्यस्तः परिवृत्तो हस्तो नक्षत्रविशेषः, करश्च यस्याः सा । 'हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि' इत्युभयत्रापि विश्वः । अवनतेन्दुः स्रस्तचन्द्रा अत एव सा रजनिर्लज्जया । ग्राम्यचेष्टादर्शनजनितयेति भावः । अधोमुखी नम्रमुखीवेत्युत्प्रेक्षा । परिवृत्तिं निवृत्त्युन्मुखतामभजत । प्रभातप्रायाऽभूदित्यर्थः । स्त्रियो हि परकीयग्राम्यचेष्टादर्शने त्रपावनतमुख्यो हस्तेन दृष्टिमन्तर्धाय द्रागपसरन्तीति भावः । अत एवानन्तरसर्गे प्रभातवर्णनाय प्रस्तावः । मालिनीवृत्तमेतत् । लक्षणं तूक्तं वक्ष्यते चोत्तरसर्गादौ ॥ ९१ ।।

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये दशमः सर्गः ॥ १० ॥

समाप्तमिदं पूर्वार्धम्।