पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
शिशुपालवधे

सामर्थ्यं यस्य तस्मिन् रथे स्यन्दने, शरीरे च । 'रथः स्यात्स्यन्दने काये' इति विश्वः । रुजा भङ्गेन, रोगेण च निकामं विकलीकृते सति आप्तेन हितेन तक्ष्णा वर्धकिना, आप्तेन हितेन भिषजा वैद्येनेव । 'तक्षा तु वर्धकिस्त्वष्टा' इत्यमरः । तत्क्षणं तस्मिन्नेव क्षणे । अत्यन्तसंयोगे द्वितीया । लङ्घनं पादेनाक्रमणं, उपवासश्च । 'लङ्घनं तूपवासे स्वाद्गमने प्लवनेऽपि च' इति विश्वः । तत्पूर्वकः क्रमो विधिः प्रचक्रमे प्रक्रान्तः । प्रायेण ज्वरादिचिकित्साया लङ्घनपूर्वकत्वादिति भावः । श्लेषालंकारः ॥ २५ ॥

 धूर्भङ्गसंक्षोभविदारितोष्ट्रिकागलन्मधुप्लावितदूरवर्त्मनि ।
 स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥

 धूर्भङ्गेति । स्थाणौ कीले । 'स्थाणुः कीले स्थिरे हरे' इति विश्वः । निषङ्गिणि सक्ते अनसि शकटे । 'क्लीबेऽनः शकटोऽस्त्री स्यात्' इत्यमरः । धुरोऽक्षस्य भङ्गेन यः संक्षोभो विपर्यासस्तेन विदारिता भिन्ना या उष्ट्रिका मृण्मयं मद्यभाण्डम् । 'उष्ट्रिका मृत्तिकाभाण्डभेदे करभयोषिति' इति विश्वः । ततो गलता स्रवता मधुना मद्येन प्लावितं सिक्तं दूरवर्त्म दीर्घाध्वा येन तस्मिन् । तथा सति पुरः पूर्वं लाभाय कृतः क्रयः क्रयणं येन स वणिक् क्षणं शुशोच । अत्र मधुस्रावधनव्यययोर्विशेषणगत्या शोकहेतुत्वात्काव्यलिङ्गभेदः ॥ २६॥

 भेरीभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।
 उत्तुङ्गमातङ्गजितालघूपलो बलैः स पश्चात्क्रियते स भूधरः॥२७॥

 भेरीभिरिति ॥ भेरीभिराक्रुष्टानि निन्दितानि महान्ति गुहामुखानि येन सः । भेरीझङ्कारभर्त्सितनितान्तवात्यामुखरमहागुहाद्वार इत्यर्थः । ध्वजांशुकैस्तर्जितानि भर्त्सितानि कन्दलीदलानि गुल्मपत्राणि येन सः । उत्तुङ्गैर्मातङ्गैर्जिता अलघूपलाः स्थूलपाषाणा येन स भूधरो रैवतकादिः बलैः सैन्यैः पश्चात्क्रियते स्म पश्चात्कृतः । स्वयं दूरगमनेन पृष्ठतः कृत इत्यर्थः । उक्तविशेषणमहिम्ना अधरीकृत इति च प्रतीयते । 'लट् स्मे' (३।२।११८) इति भूतार्थे लट् । आक्रुष्टेति क्रोशतेः कर्मणि क्तः । व्रश्चादित्वात्पत्वे ष्टुत्वम् । अत्र पश्चात्करणस्याक्रुष्टादिपदार्थहेतुकत्वात्काव्यलिङ्गम् । तच्चोक्तप्रतीयमानाभेदाध्यवसायादिति श्लेषमूलातिशयोक्तिसंकीर्णम् । तेन बलानां भूधरौपम्यं गम्यत इत्यर्थालंकारेणालंकारध्वनिः ॥ २७ ॥

 वन्येभदानानिलगन्धदुर्धराः क्षणं तरुच्छेदविनोदितक्रुधः ।
 व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथंचिदारादपथेन निन्यिरे॥२७॥

 वन्येभेति ॥ वन्येभदानानिलगन्धेन वनगजमदमारुतगन्धाघ्राणेन दुर्धराः क्रोधान्धा दुर्ग्रहाः अत एव क्षणं तरुच्छेदेन विनोदितक्रुधः प्रतिगजासांनिध्ये वृक्षाणां भङ्गेनापनीतक्रोधाः उन्मदिष्णवोऽत्यन्तमदशीलाः । 'अलंकृञ्-' (३।२।

१३६) इत्यादिना इष्णुच् । व्यालद्विपा दुष्टगजा यन्तृभिराधोरणैः कथंचिद्दूरादपथेनामार्गेण । 'पथो विभाषा' (५।४।७२) इति निषेधविकल्पात् 'ऋक्पू:-'