पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
द्वादशः सर्गः ।

(५।४।७४) इत्यादिना समासान्तः । 'अपथं नपुंसकम्' (२।४।३०) इति नपुंसकत्वम् । निन्यिरे नीताः । अत्रापि द्विपविशेषणानां तदुपमेयहेतुकत्वात्काव्यलिङ्गं सत्स्वभावोक्त्या संकीर्यते ॥ २८ ॥

 तैर्वैजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।
 बह्व्यः प्रसर्पज्जनतानदीशतैर्भुवो बलैरन्तरयांबभूविरे ॥ २९ ॥

 तैरिति ॥ वैजयन्त्यः पताकाः ता वनराजय इव ताभी राजन्तीति तथोक्तैः गिरीणां प्रतिच्छन्दाः प्रतिनिधयः । तत्सदृशा इत्यर्थः । एतस्मादेव स्पष्टोपमालिङ्गादन्यत्राप्युपमितसमासाश्रयणम् । ते महामतङ्गजा येषु तैः । जनता जनसमूहास्ता नद्य इव तासां शतानि प्रसर्पन्ति प्रवहन्ति येषु तैस्तथोक्तैः बलैः सैन्यैः । बह्व्यो बहवः । 'बह्वादिभ्यश्च' (४।१।४५) इति विकल्पादीकारः । भुवो भूमयः अन्तरयांबभूविरेऽन्तरा दूराः कृता इति । अतिक्रान्ता इत्यर्थः । न केवलं रैवतकादिरेवेति भावः । बलैर्वैपुल्यादाच्छादिता इत्यर्थः । उक्तविशेषणावगतसादृश्यादगृहीतभेदाः कृता इति च गम्यते । एतेनाभेदाध्यवसायादेवास्याक्रमणरूपान्तरीकरणस्य बलविशेषणावगतसादृश्यस्य हेतुकत्वात्तदङ्गभूतोपमासंकीर्णं पदार्थहेतुकं काव्यलिङ्गं श्लेषमूलाभेदातिशयोक्त्युत्थापितमिति संकरः अन्तरशब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्कर्मणि लिट् । आम्प्रत्यये भुवोऽनुप्रयोगः॥२९॥

 तस्थे मुहूर्तं हरिणीविलोचनैः सदृंशि दृष्ट्वा नयनानि योषिताम् ।
 मत्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत॥३०॥

 तस्थ इति ॥ हरिणीविलोचनैः सदृंशि सदृशानि । 'नपुंसकस्य झलचः' (७।१।७२) इति नुम् । योषितां नयनानि दृष्ट्वा मृगैः कृष्णसारैः कर्तृभिः मुहूर्तमल्पकालम् । 'मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽपि च' इति विश्वः । तस्थे स्थितम् । हरिणीविलोचनशङ्कयेति भावः । अथानन्तरमनेका विभ्रमक्रिया विलासक्रिया एव विकारा येषां तानि मत्वा । सविलासानि ज्ञात्वेत्यर्थः । सत्रासं सभयं यथा तथा पलाय्यत पलायितम् । हरिणीदुर्लभैर्विलासैर्योषिन्निश्चयादिति भावः । अत एव निश्चयान्तः संशयालंकारः । परापूर्वादयतेर्भावे लङ् । 'उपसर्गस्यायतौ' (८।२।१९) इति लत्वम् ॥ ३० ॥

 निम्नानि दुःखादवतीर्य सादिभिः सयत्नमाकृष्टकशाः शनैःशनैः ।
 उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥ ३१ ॥

 निम्नानीति ॥ अर्वतामश्वानाम् । 'वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । 'अर्वणस्त्रसावनञः' ( ६।४।१२७) इति त्रादेशः । व्रजाः समूहाः सादिभिरश्वारूढैः । सयत्नमाकृष्टकशा दृढगृहीतवल्गाः सन्तः । यद्यपि 'अश्वादेस्ताडनी कशा' इत्यमरः, तथाप्यत्र 'ताडनीवल्गयोः कशा' इति दर्शनादविरोधः । शनैःशनैः दुःखात्कृच्छ्रात् निम्नानि निम्नभूप्रदेशानवतीर्य उत्तालखुरारवमुच्चतरशफशब्दं श्लथीकृतप्रग्रहं शिथिलितवल्गं च यथा तथा द्रुताः सत्वराः सन्त उत्तेरुः उत्पुप्लुविरे । निम्नेषु शनैरवतीर्य दीर्घं धावन्तीत्यश्वानां स्वभाव इति भावः । अत

एव स्वभावोक्तिः ॥ ३१ ॥