पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
शिशुपालवधे

 पश्यन्कृतार्थैरपि बल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् ।
 एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥३९॥

 पश्यन्निति ॥ एकान्तमौग्ध्येनात्यन्तमुग्धतया अनवबुद्धविभ्रमैरज्ञातविलासैः किंतु प्रसिद्धो विस्तार एव गुणो येषां तैः । अतिविशालैरित्यर्थः । कृतार्थैरपि । सकृद्दर्शनाल्लब्धविस्तारफलैरित्यर्थः । विलोचनैर्जनाधिनाथं कृष्णं पश्यन् बल्लवीजनो गोपाङ्गनाजनः वितृष्णतां तृप्ततां न ययौ । भूयो भूयः पश्यन्नपि नालंबुद्धिमवापेत्यर्थः । अत्र तृप्तिकारणे दर्शने सत्यपि तृप्तिकार्यानुपपत्तेर्विशेषोक्तिः । सा कृष्णस्य मदनकोटिलावण्यलक्ष्मीं व्यञ्जयति ॥ ३९ ॥

 प्रीत्या नियुक्ताँल्लिहती स्तनंधयान्निगृह्य पारीमुभयेन जानुनोः ।
 वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदध्यौ दुहतः स गोदुहः ४०

 प्रीत्येति ॥ नियुक्तान्वामपादे एव संयतान् स्तनं धयन्ति पिबन्तीति स्तनंधयान् वत्सान् । 'नासिकास्तनयोर्ध्माधेटोः' (३।२।२९) इति धेटः खशप्रत्ययः । प्रीत्या वत्सांल्लिहतीर्जिह्वया स्वादयन्तीः रोहिणीर्गाः । 'अर्जुन्यज्ञ्या रोहिणी स्यात्' इत्यमरः । पयः क्षीरं जानुनोरुभयेन जानुद्वयेन पारी दोहनपात्रीम् । 'पारी पात्रीपरागयोः' इति विश्वः । निगृह्य निरुध्य । वर्धिष्णुधाराध्वनि वर्धनशीलक्षीरधाराशब्दं यथा भवति तथा दुहतः प्रपूरयतः । दुहेर्लटः शतरि शप् 'दुह्याच्–' (३।२।६१) इति द्विकर्मकत्वम् । गां दुहन्तीति गोदुहो गोदोहकान् । 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । स हरिश्चिरं निदध्याववलोकयति स्म । 'निध्यानमवलोकनम्' इति वैजयन्ती । स्वभावोक्तिः ॥ ४० ॥

 अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरो दुधुक्षतः ।
 वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमतल्लिकाम् ॥४१॥

 अभ्येति ॥ अभ्याजतः दोग्धुमभिमुखमागच्छतः । अजेर्लटः शत्रादेशः । निर्याणं पादबन्धनं दाम । 'निर्याणं दाम संदानं पशूनां पादबन्धने' इति वैजयन्ती । तद्धस्ते यस्य तस्य निर्याणहस्तस्य दुधुक्षतो दोग्धुमिच्छतः । दोग्धुरिति शेषः । दुहेः सन्नन्ताल्लटः शत्रादेशः घत्वधत्वे । पुरोऽग्रेऽभ्यागतोऽभिमुखमागतस्तूर्णस्तनपाने त्वरमाणस्तर्णकोऽतिबालवत्सो यस्यास्ताम् । 'सद्योजातस्तु तर्णकः' इत्यमरः । गवां वर्गाद्गोव्रजाद्धुंकृतिचारु हुंकारमनोहरं यथा तथा निर्यतीं निर्गच्छन्तीम् । इणः शतरि ङीप् । इणो यणादेशः । प्रशस्तां गां गोमतल्लिकाम् । 'प्रशंसावचनैश्च' इति नित्यसमासः । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । मधोररिर्मधुसूदन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि 'आडजादीनाम्' (६।४।७२) इत्याट् 'आटश्च' (६।१९०) इति वृद्धिः । स्वभावोक्तिः ॥ ४१ ॥

  स व्रीहिणां यावदपासितुं गताः
   शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।