कैदारिकाणामभितः समाकुलाः
सहासमालोकयति स्म गोपिकाः ॥ ४२ ॥
स इति ॥ यावच्छुकान् कीरानपासितुं गतास्तावन्मृगैरुपद्रुतश्रियामुपद्रुतसंपदां व्रीहिणां व्रीहिमताम् । 'व्रीह्यादिभ्यश्च' (५।२।११६) इतीनिप्रत्ययः । कैदारिकाणां क्षेत्रसमूहानाम् । 'पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु । कैदारकं स्यात्कदार्यं क्षेत्रं कैदारिकं गणे ॥' इत्यमरः । 'ठञ् कवचिनश्च' (४।२।४१) इति चकाराट्ठञ्प्रत्ययः । कृद्योगात्कर्मणि षष्ठी । गोपिकाः गोप्त्रीरभितः समाकुला व्यग्राः । उभयतः समाकृष्यमाणाः सतीरित्यर्थः । स हरिः सहासमालोकयति स्म । अत्र सहासावलोकनस्य विशेषणगत्या समाकुलपदार्थहेतुकत्वात्काव्यलिङ्गभेदः॥४२॥
व्यासेद्धुमस्मानवधानतः पुरा
चलत्यसावित्युपकर्णयन्नसौ ।
गीतानि गोप्याः कलमं मृगव्रजो
न नूनमत्तीति हरिर्व्यलोकयत् ॥ ४३ ॥
व्यासेद्धुमिति ॥ गोप्याः शालिगोप्याः । गौरादित्वान्ङीष् । गीतान्युपकर्णयन् शृण्वन् असौ मृगव्रजो नूनं निश्चितं कलमं नात्ति न खादति इति । किं कलमभक्षणे गीतश्रवणविशेष इत्यत आह–असौ गोपी अस्मान् व्यासेद्धुं निवारयितुमवधानतो गीतैकाग्र्यात् पुरा चलति चलिष्यति । 'यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । इतीत्थं वितर्कयन्निति शेषः । हरिर्व्यलोकयत् । अत्र मृगाणां कलमखादननिवृत्तेर्गीतासक्तिनिमित्तायास्तदाकर्णनसुखभङ्गभयहेतुकत्वमुत्प्रेक्ष्यते ॥ ४३ ॥
लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ।
शौरेरुपानूपमपाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ ४४ ॥
लीलेति ॥ अनुगता आपो येषु ते अनूपा जलप्राया देशाः । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' (वा०) इति बहुव्रीहिः 'ऋक्पू:-' (५।४।७४) इत्यदिना समासान्तः 'ऊदनोर्देशे' (६।३।९८) इत्यूकारः । तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । लीलया चलति चलनशीले स्त्रियाश्चरणे अरुणोत्पले इव तयोः स्खलन्त्यौ ये तुलाकोटी नूपुरौ । 'पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । तयोर्निनाद इव कोमलो मधुर उन्मदसारसारवः मत्तहंसकूजितम् । 'चक्राङ्गसारसौ हंसे' इति शब्दार्णवे । शौरेर्मनः स्वनान्तरादपाहरत् । अत्र मनोहरणस्य लीलेत्यादिविशेषणार्थहेतुकत्वादुपमासंकीर्णं काव्यलिङ्गम् ॥ ४४ ॥
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः ।
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥ ४५ ॥