पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
शिशुपालवधे

 उच्चैरिति ॥ तदा तस्मिन्समये अतिदूराद्गच्छतोऽपि तस्य हरेः संबन्धिनीमुच्चैर्गतामत्यूर्ध्वमुन्नताम्, अन्यत्रोर्ध्वलोकेष्वपि व्याप्तामस्खलितामभङ्गुरां, सत्यां च गरीयसीमतिमहतीं, पूज्यां च । बलरेणुसंहतिं सेनारेणुसंघातमेके कतिपये महीभृतः पर्वता आज्ञां शासनं, अपरे महीभृतः, राजानश्च । शिरोभिः शेखरैः, शीर्षैश्च समूहुः संवहन्ति स्म । वहेलिटि झेरुसि 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अत्र हरिमहिमवर्णनायामुभयेषामपि महीभृतां प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता श्लेषप्रतिभोत्थापिता चेति संकरः ॥ ४५ ॥

 प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति ।
 सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयत् ॥४६॥

 प्रायेणेति ॥ प्रायेण प्राचुर्येण नीचान् कुब्जानपि मेदिनीभृतोऽद्रीन् जनो लोकः समेन सुगमेन पथा मार्गेणैवाधिरोहति । सा मुरारेः सेना पुनः पथो मार्गानेव महामहीध्रान् महाद्रीन् परितोऽध्यरोहयत् । लोके हि सति क्षुण्णेऽध्वनि तेन शैलारोहणसंभवः । सेना तु सर्वपथातिरेकिण्यभूत् । पूर्वापराः सहस्रं पन्थानः स्वारोहणेन प्रवर्तिता इत्यर्थः । रोहतेर्गत्यर्थत्वात् 'गतिबुद्धि-' (१।४।५२) इत्यादिना पथामणिकर्तॄणां णौ कर्मत्वम् । महीं धरन्तीति महीध्राः मूलविभुजादित्वात्कः । अत्र सेनायाः पथां शैलाधिरोहणेनोपमानाज्जनादाधिक्यकथनाद्व्यतिरेकः ॥ ४६॥

 दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोचयानारुरुहुर्महीयसः।
 तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ॥४७॥

 दन्ताग्रेति ॥ द्वाभ्यां पिबन्तीति द्विपाः । 'सुपि' (३।२।४) इति योगविभागात्कप्रत्ययः । उन्मुखा उन्नमितमुखाः सन्तः दन्ताग्रैर्निर्भिन्ना विदारिताः पयोदाः शृङ्गगता यस्मिन्कर्मणि तद्यथा तथा तिर्यगूर्ध्वमुखत्वात्तिरश्चीनं यथा तथा कटेभ्यः प्लवन्ते क्षरन्तीति कटप्लाविनीभिः मदाम्बुनिम्नगाभिः मदजलप्रवाहैः विपूर्यमाणानि श्रवणोदराणि श्रोत्रोदराणि यस्मिन्कर्मणि तद्यथा तथा महीयसो महत्तरान् शिलोच्चयान् शैलानारुरुहुः । स्वभावोक्तिः ॥ ४७ ॥

 योतन्मदाम्भःकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।
 नगेन नागेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना॥४८॥

 श्च्योतदिति ॥ श्च्योतन्तः क्षरन्तो मदाम्भःकणा यस्य तेन । शैषिकः कप्प्रत्ययः । जीमूतकदम्बकस्येव द्युत् द्युतिर्यस्य तेन । पृथुभ्यां दन्ताभ्यां शालत इति तच्छालिना । गरीयसा गुरुतरेणोच्चकैरुन्नतेन केनचिन्नागेन गजेन जनस्य पन्था मार्गः यथाऽरोधि अगेन अचलेन न तथाऽरोधि रुद्धः । मत्तमातङ्गस्य दुरासदत्वाच्छैलवदनतिक्रमणीयत्वादिति भावः । अत एवोपमानादगादुपमेयस्य

नागस्याधिक्याद्व्यतिरेकः ॥ ४८ ॥