पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
द्वादशः सर्गः ।

 भग्नद्रुमश्चक्रुरितस्ततो दिशः समुल्लसत्केतनकाननाकुलाः ।
 पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥४९॥

 भग्नेति ॥ दन्तिनो गजा इतस्ततो भग्नद्रुमाः स्वभग्नाखिलवृक्षा दिशः समुल्लसद्भिः केतनैरेव काननैराकुलाः संकीर्णाश्चक्रुः । तथा तरसा बलेन पिष्टानि चूर्णितान्यद्रिपृष्ठानि यासु ता भुवो भूमीः चलद्भिर्निजाङ्गैरेवाचलैः दुर्गमा दुष्प्रापाश्चक्रुः । अत्र केतनेष्वङ्गेषु च काननाचलत्वरूपणाद्रूपकालंकारः । तेन गजानां पुरातनसृष्टिसंहारेण सृष्ट्यन्तरप्रवर्तनरूपं लोकोत्तरं सामर्थ्यं गम्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४९॥

 आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।
 उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥५०॥

 आलोकेति ॥ हरिर्महीधरान् गिरीनधिश्रयन्तीः परःशताः शतात्पराः । असंख्याता इत्यर्थः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । 'पञ्चमी' (२।१।३७) इति योगविभागात्समासः । राजदन्तादित्वादुपसर्जनस्यापि शतशब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः । गजताः गजसमूहान् । 'गजाच्चेति वक्तव्यम्' (वा०) इति सामूहिकस्तल्प्रत्ययः । उपत्यकाभ्य आसन्नभूमिभ्यः । 'उपत्यकादेरासन्ना भूमिः' इत्यमरः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५।२।३४) इति त्यकन्प्रत्ययः । उत्पातवातेन । तत्प्रतिकूलं पतन्तीति प्रतिकूलपातिनीः । ऊर्ध्वगामिनीरित्यर्थः । बृहतीः शिला इवेत्युप्रेक्षा । आलोकयामास ॥५०॥

 शैलाधिरोहाभ्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः।
 तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः॥५१॥

 शैलेति ॥ शैलाधिरोहाभ्यसनेन पर्वतारोहणाभ्यासेन अधिकोद्धुरैरत्युन्नतैः पयोधरैः स्तनैरुपलक्षिता आमलकीवनाश्रिता धात्रीवनगताः । पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । 'पर्वताच्च' (४।२।१४३) इति छप्रत्ययः । तेषां प्रमदाः । विकासेन विस्मयकृतविस्तारेण विस्फारिता विवर्तिता विभ्रमा विलासा येषां तानीक्षणानि यासां तास्तथा सत्यः तं हरिं चचायिरे ददृशुः । 'चायृ पूजानिशामनयोः' इति धातोः कर्तरि लिट् । निशामनं दर्शनम् । 'निरीक्षणनिशामने' इति दर्शनपर्यायेषु भट्टमल्लः । एतेन हरेर्लोकोत्तरं लावण्यं व्यज्यत इति वस्तुना वस्तुध्वनिः । स्वभावोक्तिवृत्त्यनुप्रासयोः संसृष्टिः ॥ ५ ॥

 सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुषुप्सुना पुनः ।
 सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्यथाथवा ॥५२॥

 सावज्ञमिति ॥ सावज्ञमनादरं यथा तथा विलोचने सकृदेकवारम् । 'एकस्य

सकृत्' (५।४।१९) इति सकृदर्थे निपातः । क्षणमुन्मील्योन्मिष्य । पुनः