पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०५
द्वादशः सर्गः ।

(३।२।४७) इति खच्प्रत्यये मुमागमः । आत्मानो जीवा इवापरं क्षमारुहं देहमिव क्षणात् संचेरुः । संप्रविष्टा इत्यर्थः । अनेकेवशब्दवाक्यार्थोपमा । सा च शरीरवदिति तद्धितगता, अन्यत्र समासगतेति संकरः ॥ ५५ ॥

 प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरानपि ।
 साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥५६॥

 प्रह्वानिति ॥ क्वचिदतीव नितान्तं प्रह्वान् प्रवणान् । अन्यत्रानुकूलान् क्वचिदुद्धतिं श्रयन्तीत्युद्धतिश्रितः औन्नत्यभाजः, औद्धत्यभाजश्च । श्रयतेः क्विप् तुक् । क्वचित्प्रकाशान्प्रकटाननवगूढवृत्तींश्च क्वचिदतिगह्वरानपि । अपिः चार्थे । अप्रवेशान्, अन्यत्र गूढांश्च । इतीत्थं साम्यादपेतान् विषमरूपान् विषमवृत्तांश्च । अत एव गुरून् महतोऽपि पूज्यानपि गिरीस्तदा हरेः वाहिनी सेना अतिचक्रामातीत्य गता, उल्लङ्घिता च । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥' इति स्मरणादिति भावः । गुरूणामप्यतिक्रम इति विरोधेऽपिशब्दः । स चोक्तवैषम्यदोषोद्घाटनेन परिहृत इति विरोधाभासः । स च गुरूनिति वाच्यप्रतीयमानयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्त्युत्थापित इति संकरः ॥ ५६ ॥

 स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ।
 अम्भोभिरुल्लङ्घिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः॥५७॥

 स इति ॥ स हरिः परितः समन्तादपथान्यपमार्गान्यपि । 'पथो विभाषा' (५।४।७२) इति निषेधविकल्पात् 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । 'अपथं नपुंसकम्' (२।४।३०) इति नपुंसकत्वम् । व्याप्तवत्यापि सर्वान्पथो व्याप्नोतीति सर्वपथीना। 'तत्सर्वादेः-' (५।२।७) इत्यादिना खप्रत्ययः । तया सर्वपथीनया तया स्वसेनया निमित्तेन अम्भोभिरुल्लङ्घितानि युगपदखिलसेनाप्रवेशेन प्रतीपगमनादुपर्याक्रान्तानि तुङ्गरोधांसि यासां ता निम्नं गच्छन्तीति निम्नगा नद्यः प्रतीपनाम्नीः कुरुते स्म । प्रतिगता उत्तानगा आपो यासां ताः प्रतीपाः । 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (६।३।९७) इतीकारः। अथवा प्रतीपं निम्नगानामविरुद्धं नाम उत्तानगा इति नामधेयं यासां ताः प्रतीपनाम्यः । 'अन उपधालोपिनोऽन्यतरस्याम्' (४।१।२८) इति ङीप् । तास्तथा चकारेत्यर्थः । अत्र निम्नगानां प्रतीपनामासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ५७ ॥

 यावद्व्यगाहन्त न दन्तिनां घटास्तुरंगमैस्तावदुदीरितं खुरैः ।
 क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ।।५८॥

 यावदिति ॥ दन्तिनां घटा गजव्रजा यावन्न व्यगाहन्त न व्यलोडयंस्तावत्तुरंगमैः कर्तृभिः खुरैः करणैरुदीरितमुत्थापितम् । अथ समीरैः मारुतैः क्षिप्तं विकीर्णम् । अत एव पुरो गजप्रवेशात्प्रागेव पतद्रजो भूरेणुरेव सरितां जलानि

पङ्कतामनैषीन्निनाय । नयतेर्द्विकर्मकत्वाल्लुङि सिचि वृद्धिः। अत्रापि सरितां पङ्कत्वासंबन्धेऽपि संबन्धोक्तेः पूर्ववदतिशयोक्तिः ॥ ५८ ॥