पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
शिशुपालवधे

 रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।
 पङ्कं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः॥ ५९॥

 रन्तुमिति ॥ रन्तुं क्रीडितुं क्षता एकत्र विषाणैरन्यत्र नखैश्च विदलिता उत्तुङ्गा नितम्बभूमयो रोधोभागाः श्रोणिभागाश्च यैस्ते । 'नितम्बो रोधसि स्कन्धे शिखरेऽपि कटीतटे' इति विश्वः । मुहुः प्रमदं हर्षं व्रजन्तः मदेन दानेन दर्पेण वोद्धताः। करैर्हस्तैरपाकृतानि शैवलानि अंशुकानीवांशुकानि यैस्ते इभा नागाः समुद्रं गच्छन्तीति समुद्रगाणां समुद्रपत्नीनां नदीनाम् । 'एकाजुत्तरपदे णः' (८।४।१२) इति णत्वम् । पङ्कं कर्दमं कलुषं चोदपादयत् । पङ्कोऽस्त्री कर्दमैनसोः' इति विश्वः । यथा मदोद्धताः पराङ्गनानां बलाद्दोषमुत्पादयन्ति तद्वदिति भावः । अत्र प्रस्तुतेभविशेषणादप्रस्तुतस्त्रीसंग्रहणसाहसिकप्रतीतेः समासोक्तिः । स्त्रीपङ्कयोरभेदाध्यवसायादिति श्लेषमूलातिशयोक्त्युत्थापितेति संकरः ॥ ५९॥

 रुग्णोरुरोधःपरिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः।
 कूलंकषौघाः सरितस्तथापराः प्रवर्तयामासुरिभा मदाम्बुभिः॥६०॥

 रुग्णेति ॥ इभा रुग्णैर्भग्नैरुरुभिर्महद्भी रोधोभिस्तटैः परिपूरिताम्भसः । मृत्क्षेपशोषिताम्भस इत्यर्थः । पुराभवाः पुरातनीः । 'सायंचिरम्-' (४।३।२३) इत्यादिना ट्युप्रत्ययः तुडागमश्च । 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । नदीः समस्थलीकृत्य स्थलसमाः कृत्वा । मदाम्बुभिः स्वमदोदकैः कूलं कषन्तीति कूलंकषाः ओघा यासां ता उभयकूलप्रवाहिन्योऽपरा अन्याः सरितः प्रवर्तयामासुः । एतेन गजसंपत्तिरुक्ता । अत्र नदीनां समस्थलत्वासंबन्धे मदाम्बूनां च सरित्त्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरिति सजातीयसंकरः ॥ ६० ॥

 पद्मैरनन्वीतवधूमुखद्युतो गता न हंसैः श्रियमातपत्रजाम् ।
 दूरेऽभवन्भोजबलय गच्छतः शैलोपमातीतगजस्य निम्नगाः॥६१॥

 पद्मैरिति ॥ पद्मरनन्वीता अप्राप्ता वधूमुखस्य द्युत् श्रीर्याभिस्ताः । वधूमुखश्रीजितपद्मा इत्यर्थः । अन्वीतेति 'ईङ् गतौ' इति धातोः कर्मणि क्तः । हंसैरातपत्रजां छत्रजन्यां श्रियं न गता अगताः । आतपत्रजितहंसश्रीका इत्यर्थः । निम्नगा नद्यः शैलोपमामतीताः शिलासाम्यमतिक्रान्ता गजा यस्मिंस्तस्य गच्छतो भोजबलस्य यादवसैन्यस्य दूरेऽभवन् । अतिव्यवहिता इत्यर्थः । अपकृष्टाश्चेति गम्यते । तदभेदाध्यवसायेनैव निम्नगानां दूरभवनस्य तद्विशेषणपदार्थहेतुकत्वाच्छ्लेषमूलातिशयोक्तिसमुत्थापितः काव्यलिङ्गभेदः ॥ ६१ ॥

 स्निग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।
 सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ।। ६२॥

 स्निग्धेति ॥ स्निग्धाञ्जनमिव श्यामाभिस्तनूभिरुन्नतैः करिणां कदम्बकैर्निरन्त-

पाठा०-१ ‘०श्रियः'.