पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०७
द्वादशः सर्गः ।

राला नीरन्ध्रा सा सेना सुधया लेपनविशेषेण क्षालिता धवलिताः सौधसंपदो यासां तासाम् । 'लेपभेदेऽमृते सुधा' इति वैजयन्ती । बहूनां पुरां पुरीणां परभागं विप्रकृष्टदेशमाप । दूरमतीत्य गतेत्यर्थः । वर्णोत्कर्षश्च परभागः । तदभेदाध्यवसायेन परभागाप्तौ विशेषणगत्या श्यामकरिकदम्बकनैरन्तर्यस्य हेतुत्वात्पूर्ववत्काव्यलिङ्गभेदः ॥ ६२ ॥

 प्रासादशोभातिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः।
 नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥६३॥

 प्रासादेति ॥ पथि मार्गे प्रभोः कृष्णस्य निवासाः सेनानिवेशाः प्रासादशोभामतिशयालुभिरतिशायकैः । आलुचि शीङ्ग्रहणमपि कर्तव्यमित्यालुच्प्रत्ययः । पटवेश्मभिः पटवस्त्रैर्बभुः तेनोत्प्रेक्ष्यते । द्वारकानिर्याणकालेऽनेन कृष्णेन सह वियोगविक्लवा विरहभीरुः पुरश्रीर्द्वारकानगरलक्ष्मीरपि पुरोऽग्रे निर्ययौ निर्गता । नूनं द्वारकातो न भिद्यन्ते अस्य निवासाः शोभयेति भावः ॥ ६३॥

 वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे ।
 गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः॥६४॥

 वर्ष्मेति ॥ गण्डस्थलानामाघर्षेण संघर्षेण गलता स्रवता मदोदकेन द्रवेष्वार्द्रेषु द्रुमस्कन्धेषु निलीयन्त इति निलायिनस्तन्निवासिन उच्चकैर्विरुवन्तो गुञ्जन्तोऽलयः द्विपानां सेनागजानां वर्ष्म प्रमाणम् । 'वर्ष्म देहप्रमाणयोः' इति विश्वः । वनेचरेभ्यः किरातेभ्यः चिरमाचचक्षिरे । इयन्तो गजा इत्याख्यातवन्त इत्यर्थः । गजवर्ष्मानुमापकेष्वलिषु विरावयोगादाख्यानमुत्प्रेक्ष्यते । वाचकाप्रयोगाद्गम्योत्प्रेक्षा ॥ ६४ ॥

 आयामवद्भिः करिणां घटाशतैरधःकृताट्टालकपङ्क्तिरुच्चकैः ।
 दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥६५॥

 आयामेति ॥ आयामो दैर्घ्यं सोऽस्ति येषां तद्वद्भिः । आयतैरित्यर्थः । करिणां संबन्धिभिर्घटाशतैर्व्यूहशतैः । 'करिणां घटना घटा' इत्यमरः । अधःकृतास्तिरस्कृता अट्टालकपङ्क्तयोऽट्टश्रेण्यो यया सा । 'अट्टास्वट्टालकः स्मृतः' इति वैजयन्ती । सा चमूरुच्चकैरुन्नतैः दूष्यैः पटमण्डपैः जितान्युदग्राणि गृहाणि येषां तानि भूयांसि पुराण्यतीत्यावर्तत । अतिक्रम्य गतेत्यर्थः । शोभया अतिशय्य स्थितेति च गम्यते । तदभेदाध्यवसायेन श्लेषमूलातिशयोक्त्युत्थापितं पूर्ववत्पदार्थहेतुकं काव्यलिङ्गम् ॥ ६५ ॥

 अथ हरिसेनाः कालिन्दी प्रत्यासेदुरित्याह-

 उद्धूतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः ।
 आह्लादिकह्लारसमीरणाहते पुरा पपाताम्भसि यामुने रजः ॥६६॥