पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
शिशुपालवधे

 उद्धूतमिति ॥ ध्वजिनीभिः सेनाभिरुच्चैरुद्भूतमूर्ध्वं क्षिप्तम् । अत एव अभ्यर्णतयान्तिकतया । 'उपकण्ठान्तिकाभ्यर्णा' इत्यमरः । विवस्वतोंऽशुभिः प्रतप्तम् । प्रतप्तमिवेत्यर्थः । अत एव व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । आह्लादिन आह्लादका ये कह्लारसमीरणाः सौगन्धिकमारुताः । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । तैराहते चालिते यामुने यमुनासंबन्धिन्यम्भसि पुरोऽग्रे रजो धूलिः पपात । संतप्ता हि संतापमसहमानाः पुरो धावित्वा क्वचन शिशिरे पयसि पतन्तीति भावः॥६६॥

 अथ चतुर्भिर्यमुनां वर्णयति-

 या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।
 कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमंहांसि जलैः पटीयसी॥६७॥

 येत्यादि ॥ या यमुना घर्मभानोरुष्णांशोस्तनयापि सती शीतलैरपि । अपिर्विरोधे । स चोष्णजातायाः शैत्यानुपपत्तेरिति भावः । यमस्यान्तकस्य स्वसापि जनस्य जीवनैरुज्जीवकैः । अत्राप्येकोदराणां भिन्नक्रियानुपपत्तेर्विरोधः । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्युभयत्राप्यमरः । किंच कृष्णा कृष्णवर्णा मलिना च तथापि शुद्धेर्वैमल्यस्याधिकं विधातृभिः संपादकैर्जलैरंहांसि पापानि विहन्तुं पटीयसी समर्थतरा । अत्र यमुनातज्जलगतत्वेन निर्दिष्टयोर्गुणक्रिययोर्विरोधेन त्रिषु विरोधेषु संसृष्टेषु तृतीयः कृष्णेति श्लेषप्रतिभोत्थापित इति संक्षेपः ॥ ६७ ॥

  यस्या महानीलतटीरिव द्रुताः
   प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
  कालीरपस्ताभिरिवानुरञ्जिताः
   क्षणेन भिन्नाञ्जनवर्णतां घनाः ॥ ६८॥

 यस्या इति ॥ हिमपिण्डपाण्डुरा हिमसङ्घशुभ्राः घना मेघाः द्रुता द्रवीकृता महानीलतटीरिन्द्रनीलस्थलानीव कालीः कृष्णवर्णाः । 'जानपद-' (४।१।४२) इत्यादिना ङीप् । यस्याः कालिन्द्या अपः पीत्वा ताभिः पीताभिरभिरनुरञ्जिता इव क्षणेन भिन्नाञ्जनवर्णतां स्नेहमृदितकज्जलवर्णतां प्रयान्ति । अत्र तटीरिवानुरञ्जिता इवेति चोत्प्रेक्षया संकीर्णेयं घनानामञ्जनोपमेति संग्रहः ॥ ६८ ॥

 व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।
 गाङ्गौघनिर्भस्मितशंभुकंधरासवर्णमर्णः कथमन्यथास्य तत् ॥६९॥

 व्यक्तमिति ॥ हेतुर्युक्तिः । अनुमानमिति यावत् । आगमात् 'गङ्गा सागरपूरिणी' इत्यागमप्रमाणात् । बलीयान् यदि प्रबलश्चेत् सा यमुना जलधिमपूरयत् । जह्नोरपत्यं स्त्री जाह्नवी नापूरयत्, व्यक्तं सत्यमित्युत्प्रेक्षा । कुतः । अन्यथा विपर्यये

अस्य जलधेः तत्प्रसिद्धमर्णोऽम्भः । 'अम्भोऽर्णस्तोयपानीयम्' इत्यमरः । गाङ्गेन