पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
त्रयोदशः सर्गः ।

 सपदि सरितं सा श्रीभर्तुर्वृहद्रथमण्डल-
  स्खलितसलिलामुल्लङ्घच्यैनां जगाम वरूथिनी ॥ ७७ ।।

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
प्रयाणवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥

 विदलितेति ॥ सा प्रकृता श्रीभर्तुः कृष्णस्य वरूथिनी सेना उक्ष्णामनडुहां विषाणविघट्टनैः शृङ्गाघातैर्विदलितानि महाकूलानि यस्यास्तां उन्मदैरुद्भूतमदै- र्विषाणिभिरलघुभिर्गुरुभिश्चरणैः पादैराकृष्टा बहिर्नीता ग्राहा जलग्राहा यस्यास्तां बृहद्भी रथमण्डलै रथसमूहैः स्खलितानि व्याकुलीकृतानि सलिलानि यस्यास्ता- मेनां सरितं यमुनां सपदि उल्लङ्घय जित्वा । तीर्त्वेत्यर्थः । भुक्त्वेति च गम्यते । विशेषणसामर्थ्यात् । जगाम । अत्र जयस्य विशेषणगत्या कूलदलनादिहेतुक- त्वात्काव्यलिङ्गभेदः । हरिणी वृत्तम् । 'भवति हरिणी न्सौ म्रौ स्लौ गो रसा- म्बुधिविष्टपैः' इति लक्षणात् ॥ ७७ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध-
काव्यव्याख्यायां सर्वंकषाख्यायां द्वादशः सर्गः ॥ १२॥


त्रयोदशः सर्गः ।

 यमुनामतीतमथ शुश्रुवानमुं तपसस्तनूज इति नाधुनोच्यते ।
 स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया॥१॥

 यमुनामिति ॥ अथ यमुनातरणानन्तरं तपसस्तनूजो धर्मनन्दनः अधुना यमु- नामतीतममुं हरिं शुश्रुवान् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्कसुप्र- त्ययः । इति नोच्यते किंतु स हरिर्यदा निजपुरादचलत् तच्चलनमादिर्यस्मिन्कर्मणि तत्तदादि तत्प्रभृति अहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावे अत्यन्तसं- योगे द्वितीया । नृपतेर्धर्मराजस्य वार्तया इह निविष्ट इतो निर्गत इति वृत्तान्तेन समचारि संचरितम् , आगतमिति यावत् । भावे लुङ् । संनिहितयमुनातरणवृत्ता- न्तवव्द्यवहितसकलदैनंदिनवृत्तान्तो निजनगरप्रस्थानाव्प्रभृति प्रतिक्षणमागत एवेत्यर्थः । अस्मिन्सर्गे मञ्जुभाषिणी वृत्तम् । 'सजसा जगौ भवति मञ्जुभाषिणी' इति लक्षणात् ॥१॥

 यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।
 सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्य निर्ययौ २

 यदुभर्तुरिति ॥ ततो हरेर्यमुनोत्तरणश्रवणानन्तरं स वसुधाधिपो धर्मराजः यदुभर्तुर्हरेरागमनेन लब्धजन्मनो लब्धोदयात् । जातादित्यर्थः । प्रमदाद्धर्षात् । 'प्रमदसंमदौ हर्षे' (३।३।६८) इत्यप्प्रत्ययान्तो निपातः । महीयस्यतिविपुलेऽपि पुरे