पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
त्रयोदशः सर्गः ।

कपटवामनं तदा पार्थोपपत्तिसमये तु विनयवामनम् । विनयनम्रमित्यर्थः ।तं हरिमिति शेषः । वीर्यविजितामरद्रुमप्रसवेन पारिजातहरणे शौर्यलब्धपारिजात- कुसुमेन यशसेव पारिजातविजयप्रसूतया कीर्त्येवेल्युत्प्रेक्षा । वासितशिरोरुहे सुर- भितकेशे शिरसि जिघ्रति स्म । 'प्रवासादेत्य मूर्धन्यवघ्राणम्' इति स्मरणात् । पुरा किल भगवान्सत्यभामाप्रीतये बलादिन्द्रलोकादपहृत्य पारिजातं निजगृहेष्वा- रोपितवानिति कथात्रानुसंधेया ॥ १२ ॥

 सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।
 कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥१३॥

 सुखेति ॥ वसुदेवाज्जन्म यस्य तस्मिन्वसुदेवजन्मनि वासुदेवे । जन्मोत्तर- पदत्वाव्द्यधिकरणो बहुव्रीहिः वामनवचनादित्युक्तं प्राक् । शिथिलीकृतेऽपि विश्ले. पिते सत्यपि सुखवेदनया आलिङ्गनसुखानुभवेन हृषिता उद्गता रोमकूपा रोम- मूलानि यस्यां तया । 'हृषेर्लोमसु' (७।२।२९) इतीडागमः। कुरुभर्तुर्धर्मराजस्याङ्ग- लतया विकसतः कदम्बनिकुरम्बस्य कदम्बमुकुलजालस्य चारुता कमनीयत्वं न तत्यजे न त्यक्ता । किंतु स्वीकृतेत्यर्थः । आश्लेषापगमेऽपि तज्जन्मसुखानुवृत्या तत्कार्यस्य रोमहर्षस्यानुवृत्तिरिति तात्पर्यार्थः । अत एव शिथिलीकृते हृषितरोम- कूपयेत्यकारणकार्यकथनाद्विभावना तदपेक्षया चेयमुत्पन्ना कदम्बनिकुरम्बचारुता- निदर्शनतया सहाङ्गेन संकीर्यते ॥ १३ ॥

 इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।
 स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ।।

 इतरानिति ॥ जनसभाजनोचितः सर्वजनसंभावनार्हः प्रसभेन बलादु- द्धृता असुरसभासुरसङ्घो येन सः प्रमनाः हृष्टचित्तः स हरिः प्रमोदपरिफुल्लच- क्षुषो हर्षोत्फुल्लनेत्रानितरान् भीमादीन् क्षितिभुजो नृपस्यानु पश्चाजन्म येषां ताननुजन्मनोऽनुजान्यथोचितं यथार्हमसभाजयत्सभाजयति स्म । आलिङ्गनादि- भिरानन्दयामासेत्यर्थः । 'आनन्दनसभाजने' इत्यमरः । 'समाज प्रीतिदर्शनयोः' इति धातोश्चौरादिकाल्लुङ् ॥ १४ ॥

  सममेत्य तुल्यमहसः शिलाघना-
   न्घनपक्षदीर्घतरवाहुशालिनः ।
  परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः
   कुलिशात्परेण गिरयो गिरीनिव ॥१५॥

 सममिति ॥ तुल्यमहसः समतेजस्कान् , शिला इव शिलाभ्यश्च घनान् दृढान् घनैः पक्षैरिव दीर्घतरबाहुभिः बाहुभिरेव पक्षैश्च शालन्त इति तथोक्तानेवंभूतान्

क्षितिपतीनेवंभूताः क्षितीश्वराः समं युगपदेत्यागत्य । आङ्पूर्वादिणः क्त्वो ल्यपि तुक् । कुलिशात्परेण परतः । कुलिशक्षतेः पविपक्षच्छेदात् पूर्वमित्यर्थः । संप्रत्यसंभवादिति भावः। परेणेति विभक्तिप्रतिरूपकमव्ययम् । गिरयो गिरीनिव परिशिश्लिषुरालिङ्गितवन्तः । उपमा ॥ १५॥