पुराभिवर्तिन इन्द्रप्रस्थाभिगामिनः, त्रिपुराभिवर्तिनश्च मुरद्विषो हरेस्तिसृणां पुराणां रिपोस्त्रिपुरान्तकस्येव । 'न तिसृचतसृ' (६।४।४) इति नामि दीर्घप्रतिषेधः । धर्ममूर्तिर्धर्मात्मा प्रजाप्रतिर्जनेश्वरो धर्मराजो, ब्रह्मा च अनुरागभावितः सन् । प्रवीयते प्रेर्यतेऽनेनेति प्रवयणं प्राजनम् । प्रतोद इति यावत् । अत एव 'प्रवयणो दण्डः प्राजनो दण्डः' इति काशिका । अजेः करणे ल्युट् । 'वा यौ' (२।४।५७) इति विकल्पादजेर्वीभावः 'पूर्वपदात्संज्ञायाम्-' (८।४।३) इति णत्वम् । स्वयमा- दित गृहीतवान् । सारथ्यं कृतवानित्यर्थः । ददातेः कर्तरि लुङि तङ् । 'स्थाध्वोः-' (१।२।१७) इतीकारे कृते सिचः कित्त्वे च 'हस्वादङ्गात्' (८।२।२७) इति सलोपः । अन्न त्रिपुरहरणे ब्रह्मा हरस्येव हरेरयं सारथ्यं चकारेत्युपमा । तस्याः प्रजापतिरिति राजब्रह्मणोः श्लेषमूलाभेदाध्यवसायादतिशयोक्तिनिर्यूढतेति ॥ १९ ॥
शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृतिः ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरधुवत्प्रकीर्णकम् ॥ २० ॥
शनकैरिति ॥ किंचेति चार्थः । अथास्य हरेस्तनुषु सूक्ष्मेषु जालकान्तरेषु गवाक्षरन्ध्रेषु स्फुरितस्य प्रसृतस्य क्षपाकरकरोत्करस्य शशिकिरणपुञ्जस्याकृतिरिवा- कृतिर्यस्य तत्प्रकीर्णकं चामरं निम्नगापतेः समुद्रस्य पृथु विपुलं फेनकूटं फेनपुञ्ज- मिव मरुतः सूनुर्भीमसेनः शनकैरधुवद्भुवति स्म । धुवतिरयं तौदादिक इत्यु- क्तम् । उपमयोः संकरः ॥ २० ॥
विकसत्कलायकुसुमासितद्यूतेरलघूडुपाण्डु जगतामधीशितुः ।
यमुनाहृदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम्॥२१॥
विकसदिति ॥ विकसत्कलायकुसुमं कालपुष्पम् । 'कलायः स्यात्काले' इति वैजयन्ती । तद्वदसितद्युतेर्नीलवर्णस्य जगतामधीशितुर्जगन्नाथस्य हरेः जिष्णुर- र्जुनः अलघूडुपाण्डु स्थूलनक्षत्रधवलम् अत एव यमुनाहदस्योपरिगमुपरिगतम् । 'अन्यत्रापि दृश्यते' (वा०) इति डप्रत्ययः । तस्य हंसमण्डलस्य द्युतिं शोभां जिष्णु जयनशीलम् । 'ग्लाजिस्थश्च-' (३।२।१३९) इति ग्स्नुः । उष्णवारणमातपत्रमभृत भृतवान् । भृञः कर्तरि लुङ् । 'स्वरितञितः-' (१।३।७२) इत्यात्मनेपदम् । "उश्च' (१।२।१२) इति सिचः कित्त्वादगुणता 'हस्वादङ्गात्' (८।२।२७) इति सकारलोपः । अत्राप्युपमासंकरः ॥ २१ ॥
पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥२२॥
पवनेति ॥ पवनात्मजेन्द्रसुतमध्यवर्तिना भीमार्जुनमध्यगतेन रुचिरेण चारुणा चक्रिणा हरिणा उभयोरर्कादिग्रहाणामन्यतमयोरन्तरे मध्ये स्थित्या वासेन कारितं संपादितम् । वृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगो व्याख्यातः । दुरुधरेत्याख्या यस्य तं दुरुधराख्यं योगं दधता । अर्कान्यग्रहमध्यगतेनेत्यर्थः । इन्दुनेवेत्युपमा । नितरामतिशयेन । 'किमेत्तिङव्ययघा-' (५।४।११) इत्यामु-
पाठा०-१शनकैश्च तस्य'. २ क्षरित'. ३ 'अव्ययादाम्वद्रव्य-'.