पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
शिशुपालवधे

प्रत्ययः । अरोचि अशोभि । रोचतेर्भावे लुङ् । स्वभावरमणीयस्यानुरूपान्तर- समायोगाच्छोभातिशयो जायते । रत्नकाञ्चनयोरिवेति भावः । अत्र भगवाना- चार्यमिहिरः-'हित्वार्कं सुनफाऽनफादुरुधराः स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः' (बृहज्जातके १३।३) इति । एतदेव स्पष्टीकृतं कल्याणवर्मणा 'रविवर्जं द्वादश- गैरनफा चन्द्राद्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञिकोऽतोऽन्यः॥' इति ॥ २२॥

 वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।
 विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥२३॥

 वशिनमिति ॥ अथ भीमार्जुनोपवेशनानन्तरं वशिनमिन्द्रियजयवन्तम् । अव्यसनिनमिति यावत् । क्षितीश्वरं भूपतिम् । अयः शुभावहो विधिर्नितिर्नय- स्ताविव । देवपुरुषकाराविवेत्यर्थः । नियतमाचारनिष्ठं यतिं जितेन्द्रियम् । 'यतिनो यतयश्च ते' इत्यमरः । नियमः शरीरातिरिक्तदेशकालादिसाधनापेक्षः संध्योपासनजपादिः । यमः शरीरमात्रसाधनापेक्षोऽहिंसादिः । 'शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः । नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् ॥' (इत्यमरः) स च यथा यमनियमाविवेत्यर्थः । 'इववद्वायथाशब्दाः' इति दण्डिनाभिधानात् । विजयश्रिया युतं आसन्नविजयम् । विजिगीषू रिपुमित्यर्थः । अर्कमारुताविव दस्रयो- रश्विनोः सुतौ नकुलसहदेवौ । 'नासत्यावश्विनौ दस्रौ' इत्यमरः । तं हरिमनु- सस्नतुरनुचेरतुः । पृष्ठोपसर्पणं चक्रतुरित्यर्थः । इह सर्वकर्तृमनोरथानुकूलव्यापार- वत्त्वमनुसरणम् । इयं मालोपमा ॥ २३ ॥

 मुदितैस्तदेति दितिजन्मनां रिपावविनीयसंभ्रमविकासिभक्तिभिः ।
 उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥२४॥

 मुदितैरिति ॥ तदा तस्मिन्समये इतीत्थं मुदितैर्हृष्टैरविनीयोऽकल्कः । अकपट इति यावत् । यः संभ्रम आदरस्तेन विकासिनी स्फुटीभवन्ती भक्तिर्येषां तैः । 'विपुयविनीयजित्या मुञ्जकल्कहलिषु' (३।१।११७) इति कल्कार्थे निपातः । नपुंसकपूर्वपदः स्त्रीलिङ्गपूर्वपदो वा बहुव्रीहिः। अविनीतं शासतीत्यविनीतशासिभिः दुष्टशिक्षकैः पाण्डवैः दितिजन्मनां रिपौ कृष्णविषये उप समीपे सीदन्ति स्मेत्युपसेदिवांसोऽन्तेवासिनः । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति सदेर्लिटः क्वसुरादेशः । तैरुपसेदिवद्भिरन्तेवासिभिः शिष्यैः इति यावत् । उरुपदेष्टरि गुरा- विवेत्युपमा। विनीतमनुद्धतं ववृते वृत्तम् । भावे लिट् । ननु विकासिभक्तिरित्यत्र कथं पूर्वपदस्य पुंवद्भावः । भक्तिशब्दस्य प्रियादिपाठात् 'स्त्रियाः पुंवत्-' (६।३।३४)

इति पुंवद्भावसूत्रेऽप्रियादिष्विति निषेधादिति । विकासिशब्दस्याविकासिनीवृत्तिमात्रपरतयाऽस्त्रीत्वस्य विवक्षितत्वान्नपुंसकपूर्वपदो बहुव्रीहिरिति केचित् । तदेतदभिप्रेत्योक्तं वृत्तिकारेण 'दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धिः' इति । एतदेव स्पष्टीकृतं गणव्याख्याने-'दृढं भक्तिर्यस्येति नपुंसकं पूर्वपदम्, धात्वर्थविशेषणमात्रपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितम्' इति । भोजराजस्तु ' भक्तौ कर्मसाधनाया'मित्यनेन सूत्रेण भज्यते सेव्यते इति कर्मार्थत्वेन