पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२७
त्रयोदशः सर्गः ।

लोहितमणयो लोहितकाः पद्मरागाः । 'लोहितान्मणौ' (५।४।३०) इति कन्प्रत्ययः । तैर्निर्मिता या भुवो भूमीर्विरलाः शैवला यासु ताः जमदग्निसूनोः परशुरामस्य पितॄणां तर्पणीस्तृप्तिकरीरप इवेत्युपमा । या सभा वहति स्म । जामदग्न्यः क्षत्रियास्त्रैः पञ्चशो ह्रदानुत्पाद्य ताभिरद्भिः पितॄनतर्पयत्, ताश्च रुधिरप्रकृतिकत्वाद्रक्तवर्णा एवेति पुराणम् ॥ ५२ ॥

 विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचैकतां गताः।
 गृहपतयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥५३॥

 विशदेति ॥ किंचेति चार्थः । यत्र सभायां विशदाश्मकूटघटिताः स्फटिकशिलासंघातनिर्मिता अत एव क्षणदासु निशासु क्षपाकृतो निशाकरस्य रुचा चन्द्रिकयैकतां सावर्ण्यादभेदं गताः अत एव तमसीव हस्तपरिमर्शसूचिताः। पाणिस्पर्शैकगम्या इत्यर्थः । गृहपङ्क्तयो जनैश्चिरमतीयिरेऽतिक्रान्ताः। पुरोगतान्यपि स्फटिकभवनानि चन्द्रिकाभ्रमादतीत्य गत्वा पश्चात्करपरामर्शैः कथंचित्प्राप्यन्त इत्यर्थः । अत्र प्रकृतानां स्फटिकवेश्मनां गुणसाम्यादप्रस्तुतचन्द्रिकैक्योक्त्या सामान्यालंकारः। 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ ५३ ॥

 निलयेषु नक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्फुटागसः ।
 मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जघ्निरे ५४

 निलयेष्विति ॥ यत्र सभायां निलयेषु नक्तं रात्रौ बिसिन्यो दीर्घिकाः पद्मिन्यस्ता एव वध्वस्तासां परिभवेन निमीलनेन दूषणेन च स्फुटागसः स्पष्टापराधाः शशलाञ्छनांशवश्चन्द्रपादाः। अत्रसद्धिरत्रस्यद्भिरपि, निर्दोषैरपि इति चार्थः । 'त्रासो भीर्मणिदोषयोः' इति विश्वः । 'वा भ्राश-' (३।१|७०) इत्यादिना श्यनभावपक्षे शतृप्रत्ययः । असिताश्मनामिन्द्रनीलमणीनां चयैः समूहैः गौरवात्स्वयं प्रभूतत्वात्, संभावितत्वाच्च उपांशु अंशुसमीपे, रहश्च । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । मुहुर्जघ्निरे तिरोहिताः, मारिताश्च । हन्तेः कर्मणि लिट् । समीपगताश्चन्द्रांशवः प्रभूतैरिन्द्रनीलांशुभिस्तिरस्कृता इत्यर्थः । अन्यत्रान्तःपुरद्रोहिणो निर्भीकैरपि संभावितैर्दुष्कीर्तिभयाद्गूढं हन्यन्त इति भावः । अत्र बिसिनीनां वधूत्वरूपणात्तत्परिभाविनां चन्द्रांशूनां धूर्तकामुकत्वरूपणप्रतीतेरेकदेशविवर्तिरूपकं तच्च गौरवादुपांशु जघ्निरे इति च श्लेषणात्रसद्भिरपीति विरोधेन च संकीर्यते ॥ ५४॥

 सुखिनः पुरोऽभिमुखतामुपागतः प्रतिमासु यत्र गृहरत्नभित्तिषु ।
 नवसंगमैरविभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥ ५५॥

 सुखिन इति ॥ यत्र सभायां नवः संगमो येषां तैर्नवसंगमैरत एव त्रपाभरेण पराङ्मुखैर्विमुखैरपि गृहाणां रत्नभित्तिषु प्रतिमासु तत्संक्रान्तप्रतिबिम्बेषु पुरोऽग्रेऽभिमुखतामुपागतैः प्रियाजनैः कान्ताजनैः सुखिनो भोगिनः प्रमदं हर्षमबिभरुः बिभ्रति स्म । 'भृञो लङि 'श्लौ' (६।१|१०) इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' (३।४।१०९) इति झेर्जुसादेशः । स्त्रीणां वैमुख्येऽपि तत्प्रतिबिम्बाभिमुख्यात्पुंसां