पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
शिशुपालवधे

सुखमेव, स्त्रीणां तु उभयत्रापि क्लिष्टमित्यर्थः । अत्र वैमुख्येऽप्याभिमुख्यमिति विरोधस्य प्रतिमास्विति निरासाद्विरोधाभासोऽलंकारः ॥ ५५ ॥

 तृणवाञ्छया मुहुरवाश्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् ।
 रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥५६॥

 तृणेति ॥ यत्र सभायां हरिताश्मनां मरकतमणीनां गृहाणाम् । 'गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः' इत्यमरः । निचयेषु सङ्घेषु तृणवाञ्छया तृणाशया मुहुरवाञ्चिताननान्नमितमुखान् अत एव रसनाग्रेषु लग्नाः किरणा अङ्कुरा इव येषां ते तान् । अत एव गृहीतकवलानुपात्ततृणग्रासानिव स्थितान् हरिणान् जन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि 'आडजादीनाम्' (६|४|७२) इत्याट् 'आटश्च' (६।१|९०) इति वृद्धिः । अत्र तृणवाञ्छयेति हरिणानां मरकतेषु तृणभ्रान्तेर्भ्रान्तिमदलंकारः । तन्मूला चेयं गृहीतकवलत्वोत्प्रेक्षेति संकरः ॥ ५६ ॥

 विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ।
 यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ५७

 विपुलेति ॥ यदुपान्तिकेषु यस्याः सभाया उपान्तिकेषु समीपेषु महीरुहो वृक्षाः । विपुलेष्वालवालेषु मूलजलाधारेषु । 'स्यादालवालमावालम्' इत्यमरः । भृतानि संभृतानि वारीण्येव दर्पणास्तेषु प्रतिमागतैः प्रतिबिम्बतां गतैः । प्रतिबिम्बितैरित्यर्थः। आत्मभिः । स्वस्वमूर्तिभिरित्यर्थः । सपलाशराशिं सपत्रसंततिं मूलसंहतिं दधत इव दधाना इवाभिविरेजुः । स्वालवालेषु स्वप्रतिबिम्बितैरधोमुखैः मूलेष्वपि सपत्रा इव रेजुरित्युत्प्रेक्षा ॥ ५७ ॥

 उरगेन्द्रमूर्धरुहरत्नसंनिधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ।
 अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥५८॥

 उरगेन्द्रेति ॥ उरगेन्द्राणां मूर्धसु रुहाणि रूढानि । इगुपधलक्षणः कः । तेषां रत्नानां संनिधेः संनिधानान्मुहुरुन्नतस्य । यदा यदा तत्संनिधिस्तदा तदोदितस्येत्यर्थः । पयोमुचो मेघस्य रसितैः स्तनितैर्यदङ्गणभुवो यस्याः सभायाः प्राङ्गणप्रदेशाः समुच्छ्वसन्तः प्रादुर्भवन्तो नवाः प्रत्यग्रा वालवायजमणिस्थलाङ्कुरा वैदूर्यभूप्ररोहा यासु तास्तथोक्ता अभवन् । 'वैदूर्यं वालवायजम्' इत्यमरः । वालवायो नाम वैदूर्यप्रभवो देशविशेषः । उरगेन्द्रमूर्धन्यरत्नाङ्कुरैः सहोदितमेघध्वनेर्विदूरभूमिरुद्भिन्नाङ्कुरा भवतीति प्रसिद्धिः । तदुक्तम्-'उरगमूर्धन्यरत्नसन्निधानादकालेऽपि मेघा गर्जन्तीति वार्ता' । केचित्तु यत्रैवोरगरतं मेघरसितं च तत्रैव वैदूर्यभूमिः । अत्र समृद्धिमद्वस्तुवर्णनादुदात्तालंकारभेदः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् ॥ ५० ॥

 नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।
 अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ५९