पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३१
त्रयोदशः सर्गः ।

तन्नवगीतं तथाप्यनवगीततां दधदिति विरोधेऽपिशब्दः । अविगर्हितत्वं दधदित्यविरोधाद्विरोधाभासः । 'अवगीतं तु निर्वादे मुहुर्गीतेऽविगर्हिते' इति विश्वः । सत्त्वमन्तःकरणं तेन निवृत्तं नृत्यं सात्त्विकम् । अङ्गं हस्तादि तेन निवृत्तमाङ्गिकम् । 'निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके' इत्यमरः । ते स्फुटे यस्मिंस्तत्तथोक्तम् । वाचिकस्याप्युपलक्षणमेतत् । यथाह भगवान्भरतः-'पदार्थाभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः' इति । अत एव कालिदासोऽपि 'अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्तमुपधाय दर्शयन्' (रघुवंशे १९॥३६) इति । कोमलं मधुरनृत्यमुज्ज्वलमुद्धतं चानृत्यत् । तथोक्तं दशरूपके-भावाश्रयं तु नृत्यं स्यान्नृत्तं ताललयाश्रयम् । आद्य पदार्थाभिनयो मार्गादेशी तथापरः ॥ मधुरोद्धतभेदेन तद्वयं द्विविधं पुनः । लास्यदण्डकरूपेण नाटकाद्युपचारकम् । 11 (१-९, १०) इति ॥ ६६ ॥

 सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः ।
 सततोत्सवं तदिति नूनमुन्मुदो रभसेन विस्मृतमभून्महीभृतः ६७

 सकल इति ॥ किंचेति चार्थः । स राजा हरौ कृष्णे गृहमागते सकले तत्र नगरे इन्द्रप्रस्थे । अकाले प्रसिद्धवसन्ताद्यतिरिक्ते काले । महमुत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । आदिदेशाज्ञापयामास । नूनमत्रोत्प्रेक्ष्यते-उन्मुदः कृष्णागमनादुत्कटानन्दस्य महीभृतो धर्मनन्दनस्य तन्नगरं सततमुत्सवा यस्मिंस्तत्सततोत्सवमिति एतद्भसेन त्वरया विस्मृतमभूत् । अन्यथा कथं कृतकरणोपदेश इति भावः ॥ ६७ ॥

 हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
 महतीमपि श्रियमवाप्य विस्मयः सुजनो न विसरति जातु किंचन॥

 हरिरिति ॥ किंचेति चार्थः । अखिलान्यभिधानानि नामानि वेत्तीत्यखिलाभिधानवित्सकलनामप्रपञ्चाभिज्ञः । 'नामरूपे व्याकरवाणि' इति श्रुतेरिति भावः । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारम् । आकुमारेभ्य इत्यर्थः । 'आङ्मर्यादाभिविध्योः' (२।१।१३) इत्यभिधानादव्ययीभावः । स्वजनस्य बन्धुजनस्य । 'बन्धुस्वस्वजनाः समाः' इत्यमरः । वार्तमनामयम् । आरोग्यमित्यर्थः । 'वार्तं फल्गुन्यरोगे च' इत्यमरः । 'ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्' इति मनुस्मरणात् (२।१२७)। अन्वयुतापृच्छत् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । युजेः कर्तरि लङ् । तथा हि-महतीं श्रियं संपदमवाप्यापि विस्मयो निरहंकारः सुजनः अत एव जातु कदाचिदपि किंचन किमपि न विस्मरति । सुजनः संपन्नोऽप्यहंकारं न करोतीति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६८ ॥

  मर्त्यलोकदुरखापमवाप्तरसोदयं
   नूतनत्वमतिरक्ततयानुपदं दधत् ।


पाठा०-१ 'तत्र नगरे हरौ गृहान्गतवत्यकाल∙'. २ 'गृहान् गतवति स्वगृहानागते सति'.

३ '∙मतिरिक्त•'