पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४४
शिशुपालवधे

 तदेवं स्तुत्या हरिमभिमुखीकृत्य कृत्यांशमावेदयति-

 सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।
 मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥६॥

 सप्तेति ॥ सप्त तन्तवः संस्था यस्य तं सप्ततन्तुं ऋतुम् । 'सप्ततन्तुर्मखः ऋतुः' इत्यमरः । अधिगन्तुं प्राप्तुमिच्छतो ममानुज्ञयानुज्ञादानेनानुग्रहं प्रसादं कुरु । साहाय्यं कुर्वित्यर्थः । स्वतः समर्थस्य किं मदनुग्रहेणेत्याह-हे प्रभो, त्वयि मूलतां मुख्यकारणतामङ्घ्रित्वं चोपगते सति मया धर्ममयवृक्षता धर्मात्मकवृक्षता प्रापि प्राप्ता । प्राप्नोतेः कर्मणि लुङ् । प्रागपि त्वदनुग्रहादेव धर्ममर्जयन् धर्मराजोऽहमस्मीति भावः । अत्र नृपस्य धर्मवृक्षत्वेन हरेस्तन्मूलत्वेन च रूपणात्सावयवरूपकम् । तेन त्वदनुग्रहः सर्वथा प्रार्थनीयो मया धर्मार्थिनेति तात्पर्यं व्यज्यते ॥ ६॥

 संभृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।
 त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥७॥

 संभृतेति ॥ निर्मलां निर्दोषामिष्टिं यागम् । यजेः स्त्रियां क्तिन् ‘वचिस्वपि' (६।१।१५) इत्यादिना संप्रसारणम् । कर्तुमभिवाञ्छता अत एव संभृतोपकरणेन संपादितसाधनेन मया त्वं वलजान् धान्यराशीन् । 'वलजो धान्यराशिः स्यात्' इति वैजयन्ती । पुपूषता पवितुं शोधितुं निर्बुसीकर्तुमिच्छता । पुनातेः सन्नन्ताल्लटः शत्रादेशः 'सनि ग्रहगुहोश्च' (७२।१२) इति चकारादिटः प्रतिषेधः । कर्षकेण कृषीवलेन समीरणो वायुरिव प्रतीक्षितः । प्रवाते शूर्पादिना धान्यस्योत्क्षेपः पवनम् । तद्वातं विनेव त्वां विना समाहृतसंभारेणापि मया यागो दुष्कर इति भावः ॥ ७॥

 वीतविघ्नमनघेन भाविता संनिधेस्तव मखेन मेऽधुना ।
 को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥८॥

 वीतविघ्नमिति ॥ अधुना तव संनिधेर्हेतोर्मे मखेन ऋतुना कर्त्रावीतविघ्नमविघ्नं अनघेन निर्दोषेण भाविता । भविष्यत इत्यर्थः । भावे लट् 'स्यसिच्सीयुट्' (६।४।६२) इत्यादिना लुटि चिण्वद्भावाद्वृद्धिः। तथा हि-अशीतदीधितावुष्णांशावास्थितोदये प्राप्तोदये सति को वासरश्रियं दिनशोभा विहन्तुमलं शक्तः। न कोऽपीत्यर्थः । अत्र हरिमरीचिमालिनोर्वाक्यभेदाद्बिम्बप्रतिबिम्बतया संनिहितद्योतितया समानधर्मतया निर्दोषो दृष्टान्तालंकारः । 'यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मवाक्योक्तेः स दृष्टान्तो निगद्यते ॥' इति लक्षणात् ॥ ८॥

 खापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत ।
 तीर्थगामि करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥९॥

 स्वापतेयमिति ॥ यत्स्वपतौ स्वामिनि साधु तत् स्वापतेयं वित्तम्। 'पथ्यतिथिवसतिस्वपतेर्ढञ्' (१।४।१०४) 'द्रव्यं वित्तं स्वापतेयम्' इत्यमरः । धर्मतः क्षत्रियस्य


पाठा०-१ 'खलु'.