समाहारोऽष्टमूर्तिः । तद्धितार्थ-' (२।१।५१) इत्यादिना समाहारे द्विगुरेकवचनं नपुंसकं च । तस्य धरो धारयिताऽष्टमूर्तिधरः शिवः तस्याष्टमी मूर्तिरभूत् । सोमदीक्षितोऽभूदित्यर्थः । तस्याप्यागमे शिवमूर्तित्वप्रसिद्धः । अत्र प्रकृताप्रकृतयोर्नृपशिवयोः शिवशब्दमात्रसाधर्म्याच्छ्लेषालंकारः ॥ १८ ॥
तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतोऽभवद्वृतिभाजि करणे यथविजि ॥ १९ ॥
तस्येति ॥ क्रियाः कर्माणि होमादीनि, अन्यत्र पुण्यपापकर्माणि । स्वयमकुर्वतोऽननुतिष्ठतः, अन्यत्र उदासीनस्य । अत एव सांख्यपुरुषेण सांख्यशास्त्रोक्तेनात्मना तुल्यतां बिभ्रतस्तस्य राज्ञः करणेऽन्तःकरणे यथा । बुद्धाविवेत्यर्थः । ऋतौ यजतीति ऋत्विग्याजकः । 'ऋत्विजो याजकाश्च ते' इत्यमरः । 'ऋत्विग्दधृग् (३।२।५९) इति निपातः । तस्मिन् वृत्तिभाजि । होमादिव्यापारं कुर्वतीत्यर्थः । अन्यत्र पुण्यपापकारिणि सति तदुपलम्भतः तस्या ऋत्विग्वृत्तेरुपलम्भान्ममेदमित्यनुसंधानादेव कर्तृता क्रियानुष्ठातृत्वमभवत्। तथैव विधिसामर्थ्यादिति भावः । अत एवाह भगवाञ्जैमिनिः- 'अन्यो वा स्यात्परिक्रिया स्नानात्सत्यप्यात्मनेपदे' इति, अन्यत्र तदुपलम्भतस्तस्या बुद्धिवृत्तेरुपलम्भात्साक्षित्वेनानुसंधानादेव कर्तृत्वमभवत् । स्वयं क्रियाभोगरहितोऽप्यात्मा बुद्धेः संनिधानाद्रक्तस्फटिकवत्तथा भवतीत्यर्थः । उपमालंकारः ॥ १९ ॥
शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।
याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥२०
शब्दितामिति ॥ वाक्यलक्षणविदो मीमांसाशास्त्रज्ञाः । यजनकर्मिणो यजनव्यापारवन्त ऋत्विजः । व्रीह्यादित्वादिनिप्रत्ययः । अनूच्यत इत्यनुवाक्या तयानुवाक्यया । 'अनूच्यया याज्यया जुहोति' इति श्रुतेः । सा च प्रशास्तृपाठ्या । तदभावे होतृपाठ्या देवताह्वानी ऋक् । वचेः 'ऋहलोर्ण्यत्' (३।१।१२४) 'चजोः कु घिण्यतोः' (७।३।५२) इति कुत्वम् । शब्दसंज्ञात्वात् 'वचोऽशब्दसंज्ञायाम्' (७।३।६७) इति न प्रतिषेधः । उच्चकैः अनपशब्दं यथा तथा शब्दिताम् । मन्त्रवर्णेनोच्चैः प्रकाशितामित्यर्थः । 'उच्चैर्ऋचा क्रियत' इति विधानात् । 'शब्द संशब्दने' इति धातोश्चौरादिकात्कर्मणि क्तः । देवतामिन्द्रादिकामपदिश्य द्रव्यजातं पशुपुरोडाशादि हविःसमूहं इज्यतेऽनयेति याज्या सा च होतृपाठ्या यागाङ्गसाधनमृक् । 'याज्यया जुहोति' इति श्रुतेः । पूर्ववत् 'ऋहलोर्ण्यत्' (३॥१॥१२४) इति करणे ण्यत् । 'यजयाचरुचप्रवचर्चश्च' (७३।६६) इति कुत्वप्रतिषेधः । तया अत्यजन् अयजन्नित्यर्थः । 'देवतोद्देशेन द्रव्यत्यागो याग' इति लक्षणात् । स च त्यागः सामान्यत आहवनीये जुहोतीति तदाहवनीय इति सामान्यन्यायाद्विधानादन्यत्रेति ध्येयम् । द्रव्यत्यागस्याध्वर्युमात्रकर्तृत्वेपि याज्यापुरोनुवाक्याद्वारा होतृप्रशास्त्रोरपि साहित्यादत्यजन्नितिबहुत्वव्यपदेशः । तथा च मैत्रावरुणेन