पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४१
चतुर्दशः सर्गः ।

जिह्वा ' इति चामरः । तासां शतानि तेषां प्रभामण्डलेन हसन्निवेति रूपकसं- कीर्णोत्प्रेक्षा । पावको वह्निः वषट्कृतं वषट्कारेण त्यक्तम् । हुतमित्यर्थः । 'हुतं त्रिषुवषट्कृतम्' इत्यमरः । निर्मलीमसम् अमलिनं । शुद्धमित्यर्थः । 'मलीमसं तु मलिनम्' इत्यमरः । 'ज्योत्स्नातमिस्रा-' (५।२।११४) इत्यादिना मलिनशब्दान्मत्वर्थे ईमसच्प्रत्ययान्तो निपातः । प्राज्यं प्रभूतमाज्यमसकृदलीढ आस्वादयत् । लिहेः स्वरितेत्त्वाल्लङि कृते 'हो ढः' (८।२।३१) इति ढत्वं 'झषस्तथोऽर्धोधः' (८॥२॥४०) इति धत्वे ष्टुत्वे ढूलोपदीर्घौ ॥ २५ ॥

 तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।
 वर्णसंपदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥२६॥

 तत्रेति ॥ तत्र क्रतौ । मन्त्रेरुत्पवनादिमन्त्रैः पवितं पवित्रितम् । शोधितमित्यर्थः । 'पूङ्श्च' (७।२।५१) इति विकल्पादिडागमः । हविराज्यादिकमश्नतो भुञ्जानस्य । अशेर्भोजनार्थाल्लटः शत्रादेशः । हवींषि भुङ्क्त इति हविर्भुजोऽग्नेः संबन्धि। अतिस्फुटामतिविकसितां वर्णसंपदं रूपसमृद्धिं दधत् केवलमेकम् । 'केवलं त्वेककृत्स्नयोः' इति शाश्वतः । वपुरेवोज्वलमोजिष्ठं नाभूत् । किंतु अतिस्फुटामतिव्यक्तार्थां वर्णसंपदमक्षरसमुदायं दधत् । 'वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाक्षरे' इत्यमरः । नाम हविर्भुगिति नामधेयं चोज्वलं रूढमभूत् । निरन्तरं हविर्भोजनाद्वपुः पुष्टिमाप, नाम चार्थवदासीदित्यर्थः । अत्र भोजनस्याश्नत इति विशेषणगत्या हेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ २६ ॥

 स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।
 गन्धतोऽपि हुतहव्यसंभवाद्देहिनामदहदोघमंहसाम् ॥ २७ ॥

 स्पर्शमिति ॥ उचितं स्वाभाविकमुष्णमुष्णाख्यं स्पर्शं स्पर्शनेन्द्रियमात्रग्राह्यं गुणविशेषं दधद्दधानः शिखी शिखावानग्निः । व्रीह्यादित्वादिनिः । हविराज्यादिकं ददाह भस्मीचकारेति यत् तदद्भुतं न । उष्णस्पर्शसहकृतस्याग्नेः पार्थिवद्रव्यदहनशक्तेः स्वाभाविकत्वादिति भावः । कुतः। हुतहव्यसंभवाद्भुतहवनीयहविर्जन्याद्गन्धतो गन्धादपि । सांक्रामिकगुणादपीत्यर्थः । देहिनां गन्धं जिघ्रतां प्राणिनामित्यर्थः । अंहसां पापानां ओघं समूहं,अदाह्यमपीति भावः । अदहद्भस्मीकतवान् । नाशितवानित्यर्थः । अदाह्यदहनं त्वाश्चर्यमिति भावः । अत्रोष्णस्पर्शधारणस्य शिखिविशेषणभावेनास्य हविर्दाहहेतुकत्वात्पदार्थहेतुकं तावदेकं काव्यलिङ्गम् । उत्तरार्धे त्वंहसां भस्सीकरणाभावलक्षणदाहविरोधस्य नाशलक्षणया समाधानाद्विरोधाभासे लक्ष्यस्य वाच्याभेदाध्यवसायमूलातिशयोक्तिप्रतिभोत्थापितः स एवादाह्यदाहकत्वरूपो वाक्यार्थभूतपूर्वोक्तपदार्थहेतुककाव्यलिङ्गसहकृतो हविर्दहनाद्भुतत्वहेतुरिति वाक्यार्थहेतुकं काव्यलिङ्गमन्यैः प्राधान्येन संकीर्यते ॥ २७ ॥

 उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।
 द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥२८॥