पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
शिशुपालवधे

 उन्नमन्निति ॥ सपदि होमक्षण एवोन्नमन्नुद्गच्छन् दिशो धूम्रयन् धूम्रवर्णाः कुर्वन् सान्द्रतां नीरन्ध्रतां दधत् अत एवाधःकृताम्बुदः शोभयावधीरितमेघो मेघोपरि गतश्च दहनस्याग्नेः केतनः केतुः । धूम इत्यर्थः । द्यौरोको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः । अथवा दिवमोको येषामिति विग्रहः । 'दिवं स्वर्गान्तरिक्षयोः' इति विश्वः । तेषां प्रियमिष्टं कीर्तयन् कथयन्निव कीर्तनहेतोरिव । कीर्तनार्थमिवेत्यर्थः । अत एव फलोत्प्रेक्षा । कीर्तयन्निति 'लक्षणहेत्वोः क्रियायाः' (३।२।१२६) इति हेत्वर्थे लटः शत्रादेशः । द्यामन्तरिक्षमियाय प्राप । इणो लिट् ॥ २८ ॥

 निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।
 नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ २९ ॥

 निर्जितेति ॥ नाकः स्वर्ग एषामस्तीति नाकिनो देवाः अखिलानां महार्णवौषधीनां महार्णवमन्थनसमये उत्थितानां दिव्यौषधिलतानां स्यन्दो मन्थनान्निःसृतो रसः तस्य सारो मृष्टांशः। अमृतमिति यावत् । स निर्जितो येन तत् । अमृतादपि स्वाद्वित्यर्थः । अमृतं हविराख्यातम् । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते' इति मेदिनी । ववल्गिरेऽभ्यवजह्नुः । 'वल्ग भोजने' कर्तरि लिट् । 'वल्गंं चाभ्यवहारं प्रत्यवसानं च जेमनं जग्धिः' इति हलायुधः । तस्यामृताधिक्यं व्यनक्ति । अनले हूयमानं दीयमानममृतमिति भावः । प्रतीक्षितुं कथमपि विषेहिरे सोढवन्तः । होमविलम्बं कथंचिदसहन्तेत्यर्थः । तृष्णा तु प्रागेव जिघ्रतीति रसातिशयोक्तिः । अत्र हविषोऽमृतमित्यभेदोक्त्या भेदरूपातिशयोक्तिस्तद्विशेषणपदार्थस्य वल्गनहेतुत्वात्काव्यलिङ्गभेदस्तया संकीर्यते । परिनिविभ्यः सेवसितसयसिवुसह-' (८।३।७०) इत्यादिना सहेः षत्वम् ॥ २९ ॥

 तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।
 गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ॥३०॥

 तत्रेति ॥ तत्र क्रतौ नित्यं विहितोपहूतिषु कृताह्वानेषु पतिषु भर्तृषु इन्द्रादिषु प्रोषितेषु प्रवासं गतेषु । वसेः कर्तरि क्तः 'वसतिक्षुधोः-' (७।२।५२) इतीडागमः । द्युयोषितां स्वर्गस्त्रीणामिन्द्राण्यादीनां शिरसि वेणयो जटा एव गुम्फिता ग्रथिता अभवन् । प्रफुल्ला विकसिताः सुरपादपस्रजो मन्दारमाला न गुम्फिता अभवन् । अत्र सुरयोषितां वेण्यसंबन्धेऽपि संबन्धोक्तेः स्रक्संबन्धेऽप्यसंबन्धोक्तेश्च संबन्धेऽसंबन्धरूपा असंबन्धे संबन्धरूपा चातिशयोक्तिः । ताभ्यां च क्रतोरजस्रत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ३० ॥

 प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।
 उद्धतानधिकमेधितौजसो दानवांश्च विबुधा विजिग्यिरे ॥३१॥

 प्राशुरिति ॥ विबुधाः सुरा अत्र क्रतौ आशु क्षिप्रं हूयत इति हवनीयं हविर्यत्प्राशुः प्राशितवन्तः । 'अश भोजने' लिट् द्विर्वचनादिकार्ये 'अत आदेः'