पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४३
चतुर्दशः सर्गः ।

(७।४।७०) इत्यभ्यासदीर्घः । तेन हविःप्राशनेन दीर्घं चिरभोग्यममरत्वं देवत्वमध्यगुः प्रापुः । 'इणो गा लुङि' (२।४।४५) इति गादेशः । किंच अधिकमत्यन्तमेधितौजसो वर्धितबलाः सन्तः उद्धतानुदृप्तान् दानवान् , असुरांश्च विजिग्यिरे जितवन्तः । विपूर्वाज्जयतेः कर्तरि लिट् । 'विपराभ्यां जेः' (१।३।१९) इत्यात्मनेपदम् । अत्र विबुधानां दीर्घामरत्वासुरविजयित्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । एधितौजस्त्वस्य विशेषणगत्या विजयहेतुत्वात्काव्यलिङ्गं तदुत्थापितश्चामरत्वासुरविजयक्रियासमुच्चय इति संकरः । गुणक्रियायौगपद्यं समुच्चयः ॥ ३१ ॥

 नापचारमगमन्क्वचित्क्रियाः सर्वमत्र समपादि साधनम् ।
 अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्च संपदः ॥ ३२ ॥

 नापचारमिति ॥ अत्र क्रतौ क्वचित् कुत्रापि क्रियाः कर्माण्यपचारं लोपविषयविपर्यासादिदोषं नागमन् । गमेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अनपचारे हेतुमाह-अत्र सर्वं साधनंं समपादि संपन्नम् । पद्यतेः कर्तरि लुङ् 'चिण् ते पदः' (३।१।६०) इति चिण् प्रत्ययः कर्मणि वा । संपादितमित्यर्थः । 'चिण् भावकर्मणोः' (३।१।६६) इति चिण्प्रत्ययः । साधनसंपत्तिमेव व्यनक्ति-अतीति । सत्त्रं यज्ञतन्त्रं येषामस्तीति सत्त्रिणामृत्विजाम् । 'सत्त्रमाच्छादने यज्ञे' इत्यमरः । धिय उत्तरोत्तरप्रयोगविज्ञानानि । तदुक्तम्-'आचतुर्थात्कर्मणोऽन्ते समीक्षेतेदं करिष्यामि' इति । तथा नरपते राज्ञः संपदः पदार्थसमृद्धयश्च परस्परमत्यशेरतातिशयितवत्यः। उभयेऽप्यतिसमग्रा इत्यर्थः । ज्ञानद्रव्ये हि क्रियासाधने तत्संपन्नस्य कुतः क्रियापचार इति भावः । अत्रानपचारवाक्यार्थस्य साधनसंपत्तिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । तस्य परस्परातिशयक्रियारूपधर्मसाम्यगम्यौपम्यकेवलप्रकृतधीसंपद्गोचरया तुल्ययोगितयोज्जीवितेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ ३२॥

 दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।
 दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः॥३३॥

 दक्षिणीयमिति ॥ अथानन्तरं दक्षिण औदार्यवान् । 'दक्षिणे सरलोदारौ' इत्यमरः । क्षितिपती राजा । दक्षिणामर्हतीति दक्षिणीयो दक्षिणार्हः । 'दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि' इत्यमरः । 'कडङ्करदक्षिणाच्छ च' (५।१।६९) इति छप्रत्ययः । तं पङ्क्तेः स्वाधिष्ठितायाः पावनं पावयितारं पङ्क्तिपावनम् । पावयतेः कर्तरि ल्युट् । द्विजव्रजं ऋत्विग्वर्गमित्यर्थः । पङ्क्तिशः पङ्क्त्यनुसारेणाधिगम्य प्राप्य सदसि राजसूयकीः । राजसूयकाण्डोक्ता इत्यर्थः । दक्षिणाशब्दः स्फुटार्थः । राजसूयकीति दक्षिणार्थ एव ढको विधानात् । व्यशिश्रणद्विश्राणयति स्म । वितीर्णवानित्यर्थः । 'विश्राणनं वितरणम्' इत्यमरः । 'श्रण दाने' इति धातोः 'णै चङ्युपधाया ह्रस्वः' (७।४।१)। वृत्त्यनुप्रासोऽलंकारः ॥ ३३ ॥

पाठा०-१ मधिगम्य'; 'मुपगम्य'. २ 'सपदि'.