पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५३
चतुर्दशः सर्गः ।

तथापि अतीतो वाक्पथो येन तम् । अवाङ्मनसगोचरमित्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः । आमनन्ति आदरादास्थया उपास्यं सेव्यम् । तथापि अतीवात्यन्तम् । अतीवेति निपातसमुदायोऽत्यन्तार्थेऽव्ययम् । दूरवर्तिनमामनन्ति यमेनमचिन्त्यरूपमामनन्ति तमेनं मर्त्यमानं माऽवधारयेदिति पूर्वेणान्वयः । अवाङ्मनसगोचरत्वदूरवर्तित्वानां ध्येयत्वस्तुत्यत्वोपास्यत्वैः सह विरोधस्य हरेरचिन्त्यमहिमत्वेन समाधानाद्विरोधाभासोऽलंकारः ॥ ६० ॥

 ननु हरिहरहिरण्यगर्भादयस्त्रयो देवाः सर्वोत्तरमहिमानः सन्ति, एनं न जानीम इत्यत आह-

 पद्मभूरिति सृजञ्जगद्रजः सत्त्वमच्युत इति स्थितिं नयन् ।
 संहरन्हर इति श्रितस्तमस्त्रैधमेष भजति त्रिभिर्गुणैः ॥ ६१ ॥

 पद्मभूरिति ॥ एष हरिः रजः रजोगुणं श्रित आश्रितो जगत्सृजन् पद्मभूर्ब- ह्मेति, सत्त्वं सत्त्वगुणं श्रितः जगत्स्थितिं नयन्स्थापयन् अच्युतो विष्णुरिति, तमस्त- मोगुणं श्रितो जगत् संहरन् हर इति, त्रिभिर्गुणैः सत्त्वरजस्तमोभिस्त्रैधं त्रैविध्यं भजति । 'द्वित्र्योश्च धमुञ्' (५।३।४५) इति विधार्थे धमुञ् प्रत्ययः । अस्यैव गुणभिन्नास्तास्तिस्रोऽपि मूर्तय इत्ययमेव सर्वोपास्य इति भावः । अत्र सत्त्वादि- गुणयोगस्य सृष्ट्यादिगुणयोगस्य च विशेषणगत्या त्रैविध्यहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ६१ ॥

 तर्हि कीदृशमस्य स्वरूपं कुतो वा मानुषविग्रहसंबन्ध इत्यपेक्षायामुभयं निरूपयन्नाह-

 सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः।
 क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः॥६२ ॥

 सर्वेति ॥ अमुं कृष्णं सर्ववेदिनम् । नित्यसर्वज्ञमित्यर्थः । अत एवानादिमा- दिरहितम् । अनादिनिधनमित्यर्थः । तथापि देहिनां प्राणिनामनुजिघृक्षयाऽनुग्रही- तुमिच्छया । भूभारावतरणार्थमित्यर्थः । गृहेः सन्नन्तास्त्रियाम् 'अ प्रत्ययात्' (३।३।१०२) इत्यप्रत्यये टाप् । वपुरास्थितं मानुषविग्रहमास्थितम् । न तु कर्मारब्धशरीरभाजमित्यर्थः । अत एव क्लेशकर्मफलभोगवर्जितम् । क्लेशाः पञ्च अविद्यास्मितारागद्वेषाभिनिवेशाख्याः । कर्माणि पुण्यपापानि तेषां फले सुख- दुःखे तयोर्भोगोऽनुभवस्तेन क्लेशैश्च वर्जितम् । तैरसंस्पृष्टमित्यर्थः । ईश्वरमीश्वर- शब्दितं पुंविशेष क्षेत्रज्ञविलक्षणं पुरुषविशेषं परमपुरुषं वा विदुर्विदन्ति । सन्त इति शेषः । 'विदो लटो वा' (३।४।८३) इति झेरुसादेशः । अत्राकर्मारब्ध- त्वान्नित्यज्ञानत्वादिविरोधसमर्थनाद्विरोधाभासोऽलंकारः । तेषामेव गुणानां विशे- षणगत्या पुंविशेषहेतुत्वात्काव्यलिङ्गमिति संकरः ॥ ६२॥

 एवं हरेः स्वरूपं निरूप्य तदुपासनात्फलं युग्मेनाह-

 भक्तिमन्त इह भक्तवत्सले संततस्मरणरीणकल्मषाः।
 यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः॥६३॥