पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५५
चतुर्दशः सर्गः ।

जातु कदाचित् कर्मणि प्रत्ययान्कर्मार्थे विहितान्यागादीन् न दधति । न तदन्ता भवन्तीत्यर्थः । सर्वकर्तृत्वान्नियन्तृत्वाच्च सृजति स्रष्टा, संहरति हर्ता, शास्तीति शासिता इत्यादिभिः कर्तृत्वेन निर्दिश्यते न कदाचित्सृज्यते, संह्रियते, शिष्यत इत्यादिभिः कर्मत्वेन । अनादिनिधनत्वादनियम्यत्वाच्चेति भावः । किंच अत्र भगवति स्तौतिः । 'ष्टुञ् स्तुतौ' इति धातुः । विपरीतं कारकं यस्य स विपरीत- कारकः स्तूयते स्तुत्य इत्यादिकर्मप्रत्ययान्त एव न तु कदाचित्स्तौति स्तोता इत्यादि- कर्तृप्रत्ययान्तः । सकललोकस्तुत्यस्य तस्य स्तुत्यन्तराभावादित्यर्थः । अत्र शब्दानां कर्मकर्तृप्रत्ययविधिनिषेधद्वारा भङ्गयन्तरेण सर्वकर्तृकत्वसर्वोपास्यत्वादिसूक्ष्मार्थ- बोधपरत्वात्सौम्याख्यो गुणः । 'अन्तःसंकल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते' इति लक्षणात् । अत्र भगवतः सृष्ट्यादिकर्तृत्वकर्मत्वोभयप्राप्तावेकत्रैकनियमात्परि- संख्या। तत्र न जातु कर्मणीति शब्दादेव कर्मत्वनिषेधादितरनिवृत्तिः, शब्दात्स्तुतौ कर्तृत्वनिवृत्तिरार्थीति भेदद्वयसंसर्गः । अनया च भगवतः पुरुषान्तराधिक्यप्रतीते- व्य॑तिरेकश्च प्रतीयत इत्यलंकारेणालंकारध्वनिः ॥६६॥

 पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।
 तच कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥६७॥

 पूर्वमिति ॥ एष हरिः पूर्वं प्रथममपः सृष्टवान् । किलेत्यैतिह्ये । तास्वप्सु अनिवार्यं दुर्वारं वीर्यं रेतः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । आदधावाहितवान् , तद्वीर्यं तु हिरण्यस्य स्वर्णस्य विकारः हिरण्मयम् । 'दाण्डिनायन-' (६|४।१७४) इत्यादिना निपातः । ब्रह्मणश्चतुर्मुखस्य कारणमभूत् । ब्रह्माण्डं जातमित्यर्थः । असौ तदुत्पन्नो ब्रह्मा ब्रह्माण्डमिदं जगदसृजत् । सर्वस्यापि प्रपञ्चस्यायमेव मूलकारणमिति भावः । अत्र मनुः-'अप एव ससर्जादौ तासु वीर्यमथासृजत् । तदण्डमभवद्दैमं सहस्रांशुसमप्रभम् ॥ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥' (मनु०१|८,९) इति । अत्र वीर्यमनिवार्यमिति वृत्त्यनुप्रासः ॥६७ ॥

 अथैनं त्रिभिर्विशिनष्टि-

 मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः ।
 गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥६॥

 मत्कुणाविवेत्यादिना ॥ पुरा पूर्वं परिप्लवौ चञ्चलौ । मुहुरितस्ततश्वलन्तावित्यर्थः । 'चञ्चलं चपलं तूर्णं पारिप्लवपरिप्लवे' इत्यमरः । मधुकैटभावसुरविशेषौ मत्कुणौ सुप्तासृक्पायिनौ मञ्चोद्भवौ कीटविशेषौ ताविवेत्युपमा । सिन्धुनाथः सरित्पतिः स एव शयनं तत्र निषेदुषो निषण्णस्य । समुद्रशायिन इत्यर्थः । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति लिटः क्वसुरादेशः । विभोः प्रभोः यस्य हरेः क्षणं निद्रायाः संबन्धिनः आगतं वा नै यत्सुखं तस्य विनतां विघातुकतां गच्छतः स गतौ । तादृशावपि महासुरौ मत्कुणाविव क्षणमात्रेण प्रनष्टाविति भगवतः प्रभावातिशयोक्तिः । एषां त्रयाणां पूर्वेणान्वयः ॥ ६॥