पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
शिशुपालवधे

 यदिति ॥ हे पार्थ पृथापुत्रेति मातृप्राधान्येनामन्त्रणं मर्मोद्धाटनार्थम् । सतामपूजितम् । सद्भिरपूज्यमानमित्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति वर्तमाने क्तः । 'क्तस्य च वर्तमाने' (२।३।६७) इति षष्ठी । मुरजितं कृष्णं इह सदसि यद्यस्मादपूपुजः पूजयसि स्म । णौ चङ्युपधाया ह्रस्वः' (७।४।१) तत्तस्मान्महत्प्रेम विलसति स्फुरति । अन्यथा कथमपूज्ये पूज्यत्वाभिमान इत्यभिप्रेत्याह -जनो लोकः दयितं प्रियं जनं गुणीति मन्यते खलु । अगुणिनमपीत्यर्थः । अहो आश्चर्यम् । कृष्णः प्रेम्णा पूजितो न गुणादिति भावः । अत्र प्रेमविलसितस्योत्तरवाक्यार्थहेतुकं काव्यलिङ्गम् ॥ १४ ॥

 यदराज्ञि राजवदिहार्यमुपहितमिदं मुरद्विपि ।
 ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु॥१५॥

 यदिति ॥ अराज्ञि । अभिषेकादिराजगुणविरहिणीत्यर्थः । 'नञस्तत्पुरुषात्' (५।४।७१) इति समासान्तप्रतिषेधः । इहास्मिन्सुरद्विषि कृष्णे । अपात्रत्वद्योतनार्थमसंप्रदानविभक्तिनिर्देशः । राजानमर्हतीति राजद्राजार्हम् । तदर्हमिति वतिप्रत्ययः, 'तद्धितश्चासर्वविभक्तिः (१॥१॥३८) इत्यव्ययत्वम् । यदिदमर्घ्यमर्घार्थं द्रव्यम् । अर्हणमित्यर्थः । उपहितमर्पितं तदर्घ्यमयं कृष्णः महीशा अवनिपा वह्नयश्चाहवनीयादय इवेत्युपमितसमासः । तेषु महीशवह्निषु ज्वलत्सु सत्सु, अन्यत्र महीशा इव वह्नयस्तेषु ज्वलत्सु सत्स्वित्यर्थः । ग्राम्यमृगः शुनको हविरिव न भजते न प्राप्नोति । उपमालंकारः ॥ १५॥

 अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।
 निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥१६॥

 अनृतामिति ॥ हे पार्थ, अनृतामसत्यां गिरं न गदसि न वदसीति जगति लोके पटहैर्वाद्यविशेषैः कर्तृभिर्विघुष्यसे उद्घोष्यसे । अथ च तथापि निन्द्यं हरिमर्चयतस्तव कर्मणा अपूज्यपूजाकरणेनैवासत्यता सत्यहीनता विकसति प्रकाशते । अनासत्यप्रसिद्धसत्याचरणयोर्विरूपयोर्घटनाद्विरूपघटनारूपो विषमालंकारः॥ १६॥

 तव धर्मराज इति नाम कथमिदमपष्ट पठ्यते ।
 भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः॥१७॥

 तवेति ॥ हे पार्थ, तवेदं धर्मराज इति नाम कथमपष्टु असत्यमेव पठ्यते ।जनैः इति शेषः । 'अपदुःसुषु स्थः' (उ०२५) इत्यौणादिकः कुप्रत्ययः । 'अम्बाम्बगोभूमि-' (८।३।९७) इत्यादिना षत्वम् । यद्वा युक्तमेवैतदित्याह-अथवा जनाः भृशमप्रशस्तमपि भौमदिनमङ्गारकवारं मङ्गलमभिदधति व्यपदिशन्ति तद्वदिदमपीत्यर्थः ।लोकैरप्रशस्तं प्रशस्तशब्देन विरुद्धार्थेनापि व्यपदिश्यते तदुच्चारेण दोषः यथा धूलिवृद्धिशब्देन तद्वदधर्मराजस्यापि तव धर्मराजव्यपदेश इति भावः । अत्र धर्मराजभौमदिनयोर्निरपेक्षवाक्यद्वये प्रतिबिम्बकरणादृष्टान्तालंकारः॥ १७ ॥