पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
पञ्चदशः सर्गः ।

वन् । पापिष्टैर्दुर्जयत्वादिति भावः । अधिलोकं लोके । विभत्त्यर्थेऽव्ययीभावः । यशसे नरकविजयीति प्रसिद्धये भुवः सुतं नरकाख्यमजयो जितवानसि । परलो- कप्रातारणमात्रपरो न परलोकबाध्योऽसीति भावः । अत्र निरयापराख्यनरकविज- याशक्तेर्विशेषणगत्या तज्जयस्यार्थिनो हरेर्नरकासुरविजयप्रकृतिहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च नरकयोः श्लेष्ममूलाभेदात्तदुत्थापितमिति संकरः ॥ ३१ ॥

 सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
 त्यक्तमपगुण गुणत्रितयत्यजनप्रयासमुपयासि किं मुधा ॥३२॥

 सकलैरिति ॥ हे अपगुण निर्गुण, सकलैः सर्वदोषैः समुदितं युक्तं तवेदं वपुः सकलैर्गुणैः शौर्यादिभिस्त्यक्तम् । सर्वगुणान्निवर्तितमेवेत्यर्थः । एवं च सति गुणत्रितयस्य त्यजने त्यागे यः प्रयासः तं मुधा वृथा किं किमर्थमुपयासि । मुमुक्षयेति भावः । यत्र सकलगुणस्य त्यागस्तत्र गुणत्रयस्य त्यागोऽन्तर्गत्या सिद्ध एव, अन्यथा साकल्यव्याघातादित्यर्थः । स्वभावतो निर्गुणस्य परवस्तुनः कुतो गुणत्रयचिन्तेति ध्वनिः । गुणत्रयत्यागनिषेधस्य सकलैरित्यादिवाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ ३२ ॥

 त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
 हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ ३३ ॥

 त्वयीति ॥ हे जाल्म असमीक्ष्यकारिन् , 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । गुणैरपाकृते निरस्त गुणैहीने त्वयि पूजनं कृतं जगति हासकरं परिहासजनकं इदं पूजनम् । अपेतमूर्धजेऽपगतकेशे शिरसि कङ्कतं दारुदन्तादिमयः केश- प्रसाधनविशेषः । 'प्रसाधने कङ्कतिका' इति विश्वामरौ । कङ्कतमेव कङ्कतिका । 'कंकणम्' इति पाठे शेखरमित्यर्थः। 'कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तदिव नितरामघटते । न संगच्छत इत्यर्थः । 'नजो नलोपस्तिङि क्षेपे' (वा०) इत्युपसंख्यानमिति निन्दायां तिङ्योगेऽपि नलोपः। उपमालंकारः ॥३३॥

 संप्रति राज्ञां रोषमुत्पादयन्नाह-

  मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
 अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ॥३४॥

 मृगेति ॥ हे भुवोऽधिपा राजानः, मृगविद्विषां सिंहानामिव भवतां मिषतां पश्यतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । 'षष्टी चानादरे' (२।३।३८) इति विकल्पाद्भावलक्षणे षष्ठी । इत्थं पृथासुतैः कौन्तेयैः । पितरमेतेषां न चेद्मीति भावः । अस्य कृष्णस्य वनशुनो वनशुनकस्येव । जम्बुकस्येवेति यावत् । अपचितिः पूजा अजनि जनिता । कृतेति यत् । जनेर्ण्यन्तात्कर्मणि लुङ् । एष भवतां परिभावः परिभवः । 'परौ भुवोऽवज्ञाने' (३।३।५५) इति विभाषया घञ्प्रत्ययः॥३४॥