पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
शिशुपालवधे

कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥२८॥

 कृत इति ॥ प्रजानां जनानामपत्यानां च क्षेमकृता कुशलकारिणा । 'प्रजा स्यात्संततौ जने' इत्यमरः । सुपात्रे योग्यपुरुषे कटाहादिदृढभाजने च निक्षेपेण निधानेन च निराकुलात्मना स्वस्थचित्तेन । 'योग्यभाजनयोः पात्रम्' इत्यमरः । प्रजासृजा ब्रह्मणा पुत्रिणा च त्वं धनसंपदामिव श्रुतीनां वेदानां सदोपयोगे दानभोगाभ्यां व्ययेऽप्यक्षयः । एकत्राम्नानादन्यत्रानन्त्याच्चेति भावः । गुरुरुपदेष्टा । संप्रदायप्रवर्तक इति यावत् । अन्यत्र महान् । निधीयत इति निधिः निक्षेपः कृतः । "उपसर्गे घोः किः' (३।३।९२)। श्रुतिसंप्रदायद्वारा धर्माधर्मव्यवस्थापकतया जगत्प्रतिष्ठाहेतूनां भवादृशां दर्शनं कस्य न श्लाघ्यमिति भावः । अत्र शब्दमात्रसाधर्म्याच्छ्लेषोऽयं प्रकृतविषय इत्याहुः ॥ २८ ॥

विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽसि निबर्हितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते ॥२९॥

 विलोकनेनेति ॥ हे मुने, निबर्हितांहसापहृतपाप्मना अत एवामुना तव विलोकनेनैव कृतार्थः कृतोऽस्मि । तथाप्यहं गरीयसीरर्थवत्तराः । 'द्विवचन-' (५।३।५७) इत्यादिना ईयसुन्प्रत्ययः । 'उगितश्च' (४।१६) इति ङीप् । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना गुरोर्गरादेशः । गिरस्तव वाचोऽपि शुश्रूषुः श्रोतुमिच्छुरस्मि । शृणोतेः सन्नन्तादुप्रत्ययः । न चैतद्वृथेत्याह- अथवा तथाहीत्यर्थः । अथवेति पक्षान्तरप्रसिद्ध्योरिति गणव्याख्यानात् । श्रेयसि विषये केन तृप्यते । न केनापीत्यर्थः । कृतार्थताया इयत्ताभावादिति भावः । भावे लिट् ॥२९॥

 एवं प्रियमुक्त्वा सम्प्रत्यागमनप्रयोजनं विनयेन पृच्छति-

गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ॥३०॥

 गतस्पृहोऽपीति ॥ गतस्पृहो विरक्तोऽपि त्वमागमनप्रयोजनं वदेति वक्तुं यया धृष्टतया व्यवसीयत उद्यम्यते । स्यतेर्भावे लट् । उदितमुत्पन्नमुक्तं वा आत्मनो मम गौरवं येन स गुरुः श्लाघ्य एष तवागम आगमनमेव नोऽस्माकं धृष्टतां तनोति विस्तारयति । 'तनु विस्तारे' लट् । भवतो निस्पृहत्वेऽपि प्रेक्षावत्प्रवृत्तेः प्रयोजनव्याप्त्या सावकाशः प्रश्न इति भावः ॥३०॥

इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥३१॥

 इति ब्रुवन्तमिति ॥ इति बुवन्तं तं हरिं स व्रती मुनिरुवाच । किमिति । हे पुरुषोत्तम पुरुषेषु श्रेष्ठ । 'न निर्धारणे' इति षष्ठीसमासप्रतिषेधः । त्वया इत्थं

'गतस्पृहोऽपि' इति न वाच्यम् । निस्पृहस्याप्यत्र प्रयोजनसंभवादिति भावः । तदे-