पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९३
पञ्चदशः सर्गः ।

 क्षणमिति ॥ असौ चैद्यः पथि किमिदमिति मिथः जल्पता कोऽयमनर्थः संवृत्त इति परस्परमालपता जनेन क्षणमीक्षितः सन् शिबिरं स्वकटकं प्राप्याविशङ्किमना निःशङ्कचित्तः द्रुतं शीघ्रमनीकिनीं सेनां समनीनहत् संनाहयति स्म । नह्यतेः संपूर्वकाल्लुङि ‘णौ चड्युपधाया ह्रस्वः' (७।४।१) अभ्यासदीर्घश्च । शिबिरं शकटमिति केचित् । एतेनास्य रौद्रस्थायिनः कोपस्य प्ररूढत्वं वेदितव्यम् ॥ ७१ ॥

 त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः।
 शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ॥७२॥

 त्वरमाणेति ॥ शङ्खः शिल्पमस्येति शालिकः । तदस्य शिल्पम्' इति ठक् । त्वरमाणस्य जवमानस्य शाङ्खिकस्य यः सवेगो वदनपवनो मुखमारुतः तेनाभिपूरितः प्रध्मातः शैलानां कटकतटेषु नितम्बप्रदेशेषु भिन्नरवो मूर्छितप्रतिध्वनिरस्य चैद्यस्य संबन्धि संनहनं प्रयोजनमस्येति सांनहनिकः । योधानां रणसंनाहप्रवर्तक इत्यर्थः । तदस्य प्रयोजनम्' इति ठक् । वारिजः शङ्खः । 'वारिजः शङ्खपद्मयोः' इति विश्वः । प्रणनाद दध्वान । संनहनशङ्खं दध्मावित्यर्थः । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८।४।१४) इति णत्वम् । एतेनास्य महानुत्साहो वीररसस्थायी व्यज्यते ॥ ७२ ॥

 जगदन्तकालसमवेतविषदविषमेरितारवम् ।
 धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥ ७३ ॥

 जगदिति ॥ जगदन्तकाले कल्पान्ते समवेता मिलिता ये विषदास्तोयदाः पुष्करावर्तकादयो मेघाः । 'विषं तु गरले तोये' इति विश्वः । तैर्विषमं दारुणं यथा तथेरित उत्पादितो य आरवः स इवारवो यस्य तत् । धीरे गम्भीरे निजरवे विलीना अन्तर्गता गुरवः प्रतिशब्दाः शब्दान्तराणि यस्य तत् । अस्य चैद्यस्य रणतूर्यं रणदुन्दुभिरावधि आहतम् । आहन्तेः कर्मणि लुङ्। 'आत्मनेपदेष्वन्यतरस्याम्' (२।४।४४) इति हनो वधादेशः । अत्राप्युत्साहो व्यज्यते । उपमालंकारः ॥७३॥

 सहसा ससंभ्रमविलोलसकलजनतासमाकुलम् ।
 स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥७४॥

 सहसेति ॥ अथ रणदुन्दुभिताडनानन्तरं सहसा झटिति ससंभ्रमं सव्यग्रं यथा तथा विलोलया चलन्त्या सकलया समग्रया जनतया जनसमूहेन समाकुलं संकीर्णं तत्स्थानं परितश्वलितं प्रस्थितमुडुमण्डलं ज्योतिश्चक्रं यस्मिंस्तस्य नभः- स्थलस्योपमां सादृश्यमगमत् । अत्रोडुमण्डलस्य चलनासंबन्धेऽपि संभावनया तत्संबन्धोक्तेरतिशयोक्तिः । उपमा तु तदुज्जीविता प्रतीतिमात्रसारा तदङ्गम् । तत्रैव चमत्कारस्फुरणात् । 'पुष्पं प्रवालोपहितं यदि स्यात्' इत्यादिवत् ॥ ७४ ॥

 दधतो भयानकतरत्वमुपगतवतः समानताम् ।
 धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः॥७५॥