पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
शिशुपालवधे

स्तु वैभाषिक इत्यविरोधः । काचिन्नारी दिवमनुविदधेऽनुचकार । काश्चिन्नार्यों दिश इवाश्रीका वीतशोभाः । उद्धान्तसत्त्वा उद्भेन्तचित्ता उद्भ्रान्तजन्तुकाश्च सत्यः । अन्तरात्मनि मध्ये च दाहं संतापम्, अन्यत्रौत्पातिकं प्रज्वलनं दधिरे दधुः । अन्या नार्यों वात्या इव वातसमूहा इव । 'शाखादिभ्यो यत्' (५।३।१०३) इति यत्प्रत्ययः । प्रतिदिशं दिशि दिशि । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७}} ) इति समासान्तष्टप्रत्ययः । भ्रमुर्बभ्रमः । 'वा जॄभ्रमुत्रसाम्' (६।४।१२४) इति विकल्पादेत्वाभ्यासलोपौ । अपरा नार्यों भूमिवत् भूम्या तुल्यं कम्पमापुः । इतीत्थं पार्थिवानां प्रस्थाने प्रयाणे नार्यों भाव्यशुभं पुरः पूर्वं शशंसुः । सूचयामासुरित्यर्थः । अत्र नारीणां भाव्यशुभसूचनस्य रजोदाहादिवाक्यार्थहेतुकं काव्यलिङ्गम् । तत्र नारीणां द्युदिगाद्युपमाभिस्तद्रजोदाहादिवन्नारीरजोदाहादीनाम- शुभसूचकत्वमित्युपमाकाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः । संचारिणश्च पूर्ववद्विषा- दादयः सुगमाः । अत्र 'काश्चित्कीर्णा रजोभिर्दिवमनुविदधुभिन्नवक्रेन्दुलक्ष्म्यो निश्रीकाः काश्चित्' इति पाठे काचित्कीर्णेत्येकवचनप्रक्रमभङ्गे दोषो नास्ति । न चैवमुपमानोपमेययोर्भिन्नवचनत्वदोषः । लोकेषु चन्द्रादिष्वेकत्र नियतेषु दोषबु- द्धयनुदयात् । यथाह दण्डी-'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमा- दूषणायालं यत्रोद्वेगो न धीमताम् ॥' इति स्रग्धरावृत्तम् । 'म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ॥ ९६ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितशिशुपालवध

काव्यव्याख्यायां सर्वंकषाख्यायां पञ्चदशः सर्गः ॥ १५॥


षोडशः सर्गः।

 अथानन्तरसर्गे हरेश्चैद्यदूतसंवादं वर्णयति-

 दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
 उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः॥१॥

 दमघोषेत्यादि ॥ अथ संनाहानन्तरं दमघोषसुतेन शिशुपालेन प्रतिशिष्टः प्रहितः। 'प्रतिशिष्टः प्रेषिते स्यात्प्रत्याख्याने च वाच्यवत्' इति विश्वः । प्रतिभानमस्थास्तीति प्रतिभानवान् । अवसरोचितोत्तरस्फुरणशक्तिमानित्यर्थः । कश्चन कश्चिद्दूतः हरिं कृष्णमुपगम्य प्राप्य सदसि सभायां स्फुटौ भिन्नार्थौ पृथगर्थौ प्रियाप्रियरूपौ यस्मिंस्तत्स्फुटभिन्नार्थम् । युगपदुभयार्थाभिधायकमित्यर्थः । तथैव वक्ष्यति-'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते' (१६॥४२) इति । अदः इदं वक्ष्यमाणं वचः उदाहरयाहरत् । अस्मिन्सगै वैतालीयाख्यं मात्रावृत्तम् । 'षड्विषमेऽष्टौ समे कलाः षट् च समे स्युर्नों निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥' इति लक्षणात् ॥ १ ॥

"अत्राह कामन्दक:--'सोमात्योत्पादतो हीनो दूतस्तु त्रिविधो मतः। स भर्तुः शासनाद्गच्छेद्गतवंत ह्युत्तरोत्तरम् । स्ववाक्यपरवाक्यानामिति वेत्ति च विन्दयेत्' (?) इति".