पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४३१

पुटमेतत् सुपुष्टितम्
४०१
षोडशः सर्गः ।

 'स्फुटभिन्नार्थमुदाहरद्वच' (१६।१) इत्युक्तं, तदेव चतुर्दशभिः श्लोकैरभिधत्ते--

 अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
 भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २ ॥

 अभिधायेत्यादि ॥ शिशुपालस्तदा अर्धस्वीकारकाले तत्तादृशमप्रियमभिधाय परमनुशयमनुतापं गतः अभिमना उत्कण्ठितचित्तः सन् उपेत्यागत्य सरुषः समन्योर्भवतस्तव माननां पूजां कर्तुं समीहते । अनुनेतुमिच्छतीत्यर्थः । अयं मधुरोऽर्थः ॥  परुषस्तु--तदा तदप्रियमभिधाय परं अनुशयं-केवलं न शप्तव्यः, किंतु हन्तव्यश्चेति दीर्घद्वेषं गतः प्राप्तः । 'रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः' इत्युभयत्राप्यमरः । अत एव नास्ति भीर्यस्येत्यभि निर्भीकं मनो यस्य सोऽभिमनाः निःशङ्कचित्तः सन् उपेत्य स्वयमेवागत्य सरुषः सकोपस्य भवतो माननां हननं कर्तुं समीहते । 'मानना हनने माने' इत्युभयत्रापि केशवः । भवन्तं हन्तुमिच्छतीत्यर्थः । 'मन स्तम्भे' इति धातोश्चौरादिकाल्ल्युट् णिचो लुक् । अत्र चतुर्दशश्लोक्यां परहृदयपरीक्षापराणां दूतानां प्रियाप्रिये द्वे अपि वक्तव्ये, चमत्काराय तु श्लेषभङ्ग्याभिधीयेत इति प्रियाप्रिययोर्द्वयोरपि प्रकृतत्वादभिधेयत्वाच्छब्दमात्रसाधर्म्याच्च केवलप्रकृतगोचरः श्लेषः । 'प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् । श्लेषोऽयमि'ति लक्षणात् । न[१] चेयं व्याजस्तुतिः, निन्दास्तुत्योरन्यतरगम्यतायां तदुत्थापनात् । इह तु 'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते' (१६।४२) इति वक्ष्यमाणलिङ्गादुभयोर्वाच्यत्वावगमादित्यलं प्रपञ्चेन ॥ २ ॥

 विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।
 प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥ ३ ॥

 विपुलेनेति ॥ उन्मना उत्सुकचेताः स चैद्यः परितः प्रचुरं प्रभूतं यथा तथा अधिगता प्राप्ता अङ्गनिर्वृतिः सुहृत्स्पर्शकृतमङ्गसुखं येन तं त्वां विपुलेन विशिष्टपुलकेन 'पुलः स्यात्पुलके नापि पुलं तु विपुलेऽन्यवत्' इति विश्वः । विग्रहेण वपुषा निर्दयं गाढं निपीड्यालिङ्ग्य नितान्तं मुदमायातु खलु ॥

 परुषस्तु--उन्मना मनस्वी स चैद्यः प्रचुरेणाधिना मनोव्यथया गताङ्गनिर्वृतिं विगतशरीरसौख्यं त्वां विपुलेन महता विग्रहेण समरेण । 'विग्रहः समरे काये' इति विश्वः । निर्दयं निष्कृपं निपीड्य हत्वा मुदमायातु खलु ॥ ३ ॥

 प्रणतः शिरसा करिष्यते सकलैरेत्य समं ध[२]राधिपैः ।
 तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥ ४ ॥

 प्रणत इति ॥ भूपतिः चैद्यः सकलैर्धराधिपैः समं सह एत्यागत्य शिरसा प्रणतः प्रणामं कृतवान् । कर्तरि क्तः । आशु तव शासनमाज्ञां करिष्यते त्वदाज्ञाकरो भविष्यति । कुतः । यतः स चैद्योऽस्मिन्नवसरे त्वयैव परवांस्त्वदेकपरतन्त्रः ॥

 परुषस्तु--शिरसा प्रणतो नमस्कृतः । नराधिपैरिति भावः । कर्मणि क्तः ।


  1. 'न चोभयगतः'.
  2. 'जनाधिपैः; 'नराधिपैः'.