पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथमः सर्गः ।

दिवः स्वर्गस्तस्मात् । 'घञर्थेकविधानम्' (वा०)। वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागादिवत् । अवातरः अवतीर्णोऽसि । सांप्रतं संप्रति, उदूढलोकत्रितयेन । कुक्षाविति शेषः । त्वया धरित्री गुरुः पूज्या, भारवती च क्रियतेतराम् अतिशयेन क्रियते । “तिङश्च' (५।३।५६) इति तरप् । 'किमेत्तिङव्ययात्-' (५।४।११) इत्यादिना आमुप्रत्ययः । लघुकर्ता गुरुकर्तेति विरोधाभासोऽलंकारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥ ३६ ॥

निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ॥३७॥

 निजेति ॥ निजौजसा स्वतेजसा जगद्भ्यो द्रुह्यन्तीति जगद्रुहः कंसादयः। 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । तेषां उज्जासयितुम् । तान् हिंसितुमित्यर्थः । 'जासिनिप्रहण-' (२।३।५६) इत्यादिना कर्मणि शेषे षष्ठी । 'जसु हिंसायाम् इति चुरादिः । महीतलं नोपाजिहीथा यदि नावतरेश्चेत् । 'ओहाङ् गतौ' लङि थासि रूपम् । ततस्तर्हि समाहितैः समाधिनिष्ठैरपि सकर्मकादप्याशितादिवदविवक्षिते कर्मणि कर्तरि क्तः । अथवा समाहितैः । समाहितचित्तैरित्यर्थः । विभक्तधनेषु 'विभक्ता भ्रातरः' इतिवदुत्तरपदलोपो द्रष्टव्यः । 'गम्यमानार्थस्याप्रयोग एव लोपः' इति कैयटः । अनिरूपितोऽगृहीतस्त्वमीश, मादृशाम् । चर्मचक्षुषामिति भावः । विनयोक्तिरियम् । दृशो दृष्टेः पदं गोचरः कथं स्याः । न कथंचिदित्यर्थः । तस्मात्वत्साक्षात्कार एवागमनप्रयोजनमिति भावः ॥ ३७ ॥

 ननु कोऽयं नियमो यन्ममैवायं दुष्टनिग्रहाधिकार इत्याशङ्क्याऽनन्यसाध्यत्वमेवाह-

उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥३८॥

 उपप्लुतमिति ॥ विश्वं बिभर्तीति विश्वंभरस्तत्संबुद्धौ हे विश्वंभर विश्वत्रातः । 'संज्ञायां भृतृृवृजि-' (३।२।४६) इत्यादिना खच्प्रत्यये मुमागमः । मदोद्धतैः कंसादिभिरुपप्लुतं पीडितं अदो विश्वं पातुं त्वमेव ईशिषे शक्तोऽसि । विश्वंभरत्वादिति भावः । 'ईश ऐश्वर्ये' लिटि थासि रूपम् । अत्र वैधर्म्येण दृष्टान्तमाह- क्षपायास्तमस्काण्डैस्तमोवर्गैः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । 'कस्कादिषु च' (८।३।४८) इति विसर्जनीयस्य सत्वम् । मलीमसं मलिनम् । 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः । 'ज्योत्स्नातमिस्रा-' (५।२।११४) इत्यादिना मत्वर्थीयो निपातः । नभः क्षालयितुं रवेः ऋते रविं विना । 'अन्यारादितरर्ते-' (२।३।२९) इति पञ्चमी । कः क्षमेत शक्नुयात् । न कोऽपीत्यर्थः। अत्र वाक्यद्वये समानधर्मस्यैकस्येशिषे क्षमेतेति शब्दद्वयेन वस्तुभावेन निर्देशात्तत्रापि व्यतिरेकमुखत्वाद्वैधर्म्येण प्रतिवस्तूपमालंकारः । तदुक्तम्-'सर्वस्य

वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा' इति ॥ ३८ ॥