पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४४
शिशुपालवधे

 अन्यूनेति ॥ अन्यूनोन्नतयो महोच्छ्रायाः अतिमात्रपृथवोऽत्यन्तविपुलाः अत एव पृथ्वीधरश्रीभृतः शैलशोभाधारिण इति निदर्शनालंकारः। कनकाव- लीभिराबरणहेतुहेमराजिभिः करणैः । सुदान्ना पर्वतेनैकदिशः सौदामन्यो विद्युतः । तेनैकदिक्' (४।३।११२) इत्यण्प्रत्यये ङीप् । ताभिर्दामभिरिव सौदामनीदामभिर्विद्युल्लताभिरुपमां सादृश्यं तन्वन्तः । 'तडित्सौदामनी विद्युत्' इत्यमरः । 'अतुलोपमाभ्याम्-' इति सदृशवचनस्यैव निषेधादिह सादृश्य- वाचित्वात्तृतीया । उपलसन्तः शृङ्गाराः सिन्दूरादिमण्डलान्येव लेखायुधानि सुरधनूंषि येषां ते तथोक्ताः । 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । लेखो लेख्ये सुरे' इति च विश्वः । कालियस्य कालियनागस्य कायवत्कालवपुषः कृष्णदेहाः । गजा एवाम्भोमुचो मेघाः काले योग्यकाले वर्षन्तो मदाम्बु मुञ्चन्तः पांशून् शमं शान्तिमानयन्प्रापयन् । रूपकालंकारः । शार्दूलविक्रीडितं वृत्तमुक्तम् ६९

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितशिशुपालवध-
काव्यव्याख्यायां सर्वकषाख्यायां सप्तदशः सर्गः ॥ १७ ॥


अष्टादशः सर्गः।

 अथाग्रिमसगै तुमुलयुद्धवर्णनाय सेनयोर्मेलनं तावदाह-

 संजग्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।
 पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥१॥

 संजग्माते इति ॥ अपायोऽपगमो युद्धादपसरणं तस्यानपेक्षौ तमनिच्छन्तौ । युद्धादनिवर्तिनावित्यर्थः । ईक्षतेः पचाद्यचि नन्समासः । धीरनादौ गम्भीरघोषौ तौ सेनाम्भोधी सेनासागरौ । पक्षच्छेदात्पूर्वं पश्चादसंभवादिति भावः । एकत्र देशे एकस्थाने निलेतुं वस्तुम् । 'लीङ् गतौ' इति धातोस्तुमुन्प्रत्यये गुणः । वान्छन्ता- विच्छन्तौ सह्यविन्ध्यौ वा सह्यविन्ध्याख्यौ पर्वताविव । 'वास्याद्विकल्पोपमयोः' इति विश्वः । संजग्माते मिलितवन्तौ । संपूर्वाद्गच्छतेरकर्मकाल्लिटि ‘समो गम्यृच्छि-' (१॥३।२९) इत्यादिना आत्मनेपदम् । अत्र सह्यविन्ध्ययोः सपक्ष- योरप्येकत्र मिलनस्याप्रसिद्धस्य संभावनामात्रेणोक्तत्वादुपमानाप्रसिद्धेनॊपमा किंतू- प्रेक्षेति संक्षेपः । अस्मिन्सर्गे शालिनी वृत्तम् । 'शालिन्युक्ता म्तौ तगौ गोऽब्धि- लोकैः' इति लक्षणात् ॥१॥  'सेनाम्भोधी संजग्माते' (१८।१) इत्युक्तं तत्संगतिप्रकारं तावद्वर्णयति-

 पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।
 इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गंप्रत्यनीकस्य भेजे ॥ २॥

 पत्तिरिति ॥ पत्तिः पदातिः पत्तिं पदातिम् । ‘पदातिपत्तिपतगपादातिकपदा- तयः' इत्यमरः । एयाय प्राप। आङ्पूर्वादिणो लिट् । वाज्यश्वो वाहमश्वमेयाय ।