पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४५
अष्टादशः सर्गः ।

'वाजिवाहार्वगन्धर्व-' इत्यमरः । नागो गजो नागमेयाय । स्यन्दनस्थो रथस्थमे- याय, न तु व्युत्क्रमेण, धर्मयुद्धत्वादिति भावः । इतीत्थमुक्तरीत्या सेना रागाद्र- णरागात्, रतिरागाच्च । अङ्गेन स्वाङ्गेन पत्त्यादिना, करचरणादिना च वल्लभस्य प्रियतमस्येव प्रत्यनीकस्य प्रतिबलस्य । 'वरूथिनी बलं सैन्यं चक्रं चानीकम- स्त्रियाम्' इत्यमरः । अङ्गं पत्त्यादिकं, करचरणादिकं च भेजे । यथा कान्ता कान्तस्योरुमूरुणा करं करेण मुखं मुखेन भजति तथा सेना प्रतिसैन्यस्य पत्तिं पत्तिना अश्वमश्वेनेत्यादिक्रमेण भेजे न तु व्युत्क्रमेणेत्यर्थः । वल्लभस्येवेत्युपमया समरसुरतयोः समरसत्वं व्यज्यते ॥ २ ॥

 रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां हेषया च ।
 व्योमव्यापी संततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः ॥३॥

 रथ्येति ॥ संततं व्योमव्यापी गगनस्पृक्, अन्यत्र सर्वगत इत्यर्थः । दुन्दु- भीनां रणभेरीणां प्रणादो महाघोषः । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८।४॥ १४) इति णत्वम् । रथानां समूहो रथ्या । 'त्रिषु द्वैपादयो रथ्या रथकट्या रथ- व्रजे' इत्यमरः । 'खलगोरथात्' (४।२।५०) इति यत्प्रत्ययः समूहार्थे । तासां घोषैः वारणानां बृंहणैः कण्ठघोषैः । 'बृहणं गजगर्जितम्' इति वैजयन्ती । वाजि- नामश्वानां हेषया हेषणेन च । 'हेषा हेषा च निस्वनः' इत्यमरः । 'गुरोश्च हलः' (३।३।१०३) इत्यप्रत्यये टाप् । ऐक्यं मेलनं गच्छन् । अन्यत्र तत्त्वंपदार्थशोध- नादद्वितीयतां गच्छन् । ईशिता ईशयिता ईश्वरत्वोपाधिमान्परमात्मेव । ईशे- स्तृच् । अव्यक्तोऽभूत् अयं दुन्दुभिघोष इति दुर्भेदो बभूव । अन्यत्र जीवेश्वरोपा- धिविलयात् 'अयमीश्वरः, अयं जीव' इति भेदरहितोऽभूदित्यर्थः । अत्रैक्यगमनस्य विशेषणगत्या अव्यक्तहेतुत्वात्काव्यलिङ्गमुपमाङ्गमिति संकरः ॥ ३॥

 रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलवाहुध्वजानाम् ।
 दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां श्रेजिरे खड्गलेखाः॥४॥

 रोषावेशादिति ॥ रोषावेशात्प्रत्यमित्रमभिशत्रुम् । आभिमुख्येऽव्ययी- भावः । गच्छतां धावतां द्रवतां दूरादुत्क्षिप्ता उद्यताः स्थूलाः पीवराः बाहुध्वजाः ध्वजस्तम्भा इव बाहवो येषां तेषां पादातानां पदातिसमूहानाम् । 'पादातं पत्तिसंहतिः' इत्यमरः । “षिद्भिदादिभ्योऽङ्' (३।३।१०४)। तिर्य- ग्दीर्घाः । तिर्यगायता इत्यर्थः । लेखा इव खगाः खङ्गलेखाः वैजयन्तीसदृश्यः । पताकासदृश्यः सत्य इत्यर्थः । 'वैजयन्ती पताका स्यात्' इत्यमरः । 'दृशेः समा- नान्ययोश्च' (वा०) इति 'कञ् च वक्तव्यः' इति समानशब्दोपपदादृशेः कन्प्रत्ययः । दृक्षे चेति वक्तव्यम्' (वा०) इति समानस्य सभावः । भ्रेजिरे रेजिरे। 'भ्राजृ दीप्तौ' इति धातोः कर्तरि लिट् । 'फणां च सप्तानाम्' (६।४।१२५) इति विकल्पादेत्वाभ्यासलोपौ । आर्थीयमुपमा ॥ ४ ॥

[* अत्र दृक्षशब्दपरत्वाभावेनास्य वार्तिकस्योपन्यासो भ्रममूलकः । तस्मात् 'दृग्दृश्व- तुषु' (६।३।८९) इति सूत्रेण सभावो बोध्यः ।]

-


शिशु० ३८