भूरेणूनां मार्जनाय प्रमार्जनार्थं मृत्युनान्तकेनोद्धूयमानाः प्रकम्प्यमानाः संमार्जन्यः शोधन्य इव भान्ति स्म । 'संमार्जनी शोधनी स्यात्' इत्यमरः । नूनमित्युत्प्रेक्षा ॥ ८॥
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ९
उद्यन्नादमिति ॥ धन्विभिर्धनुष्मद्भिः । व्रीह्यादित्वादिनिः प्रत्ययः । निष्ठु- राणि कर्कशानि स्थूलानि पीवराण्युच्चैरुन्नतानि मण्डलत्वं दधन्ति वर्तुलत्वं दधा- नानि । एकत्राकर्षणादन्यत्र स्वभावाच्चेति भावः । कर्मणि प्रभवन्तीति 'कर्मण उकञ्' (५।१।१०३) कार्मुकाणि धनूंषि । उद्यन्नादमुज्जृम्भमाणघोषं यथा तथा काममास्फाल्यन्ते स्म पाटवपरीक्षार्थं पाणिभिरास्फालितानि । हस्तिनं रोहन्तीति हस्त्यारोहैर्निषादिभिः । कर्मण्यण् । कुञ्जराणां शिरांसि आस्फाल्यन्ते स्म । उत्सा- हार्थमिति भावः । अत्र कार्मुकाणां कुञ्जरशिरसां च प्रकृतानामेव निष्ठुरत्वादि- विशेषणसाम्येनौपम्यावगमात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ९ ॥
घण्टानादो निखनो डिण्डिमानां ग्रैवेयाणामारवो वृंहितानि ।
आमेतीव प्रत्यवोचत् गजानामुत्साहार्थं वाचमाधोरणस्य ॥१०॥
घण्टानाद इति ॥ घण्टानादः किङ्किण्यादिघोषः डिण्डिमानां वाद्यविशेषाणां निस्वनः । ग्रीवासु भवानां अवेयाणां कण्ठशृङ्खलानां ग्रीवाभ्य एवेति ढक् प्रत्ययः । आरवः बृंहितानि बृंहणानि गजानां उत्साहार्थमाधोरणस्य हस्तिपकस्य । 'आधो- रणा हस्तिपकाः' इत्यमरः । 'वाचं बृंहणादिशब्दं आमेति प्रत्यवोचन्निवैवमेवेत्यनु. कूलमूचिर इवेत्युत्प्रेक्षा । 'आमानुगुण्ये सरणे' इत्यमरः ॥ १० ॥
यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।
शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥ ११ ॥
यातैरिति ॥ आयुधेन जीवन्तीत्यायुधीया आयुधजीविनः । 'शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः' इत्यमरः । 'आयुधाच्छ च' (४।४।१४) इति छप्रत्ययः । शिक्षाशक्तिमभ्यासपाटवं दर्शयन्तः अस्त्रादिभेदादस्त्रमहास्त्रादिकभेदाच्चा- तुर्विध्यं यातैः प्राप्तैः । सुष्टुभावः सौष्ठवं नैशित्यादिगुणवत्त्वं तस्मात् । उद्गात्रादि- स्वादप्रत्ययः । लाघवाद्वेगवत्त्वाच्च । 'इगन्ताच्च लघुपूर्वात्' (५।१।१३१) इत्यण्प्रत्ययः । अव्यासङ्गैरप्रतिषिद्धैः मुच्यन्त इति मुक्तानि शरादीनि न मुच्यन्त इत्यमुक्तानि खङ्गादीनि च तैस्तैर्मुक्तामुक्तैरिति द्वन्द्वः । आयुधैः प्राहरन् । स्वभा. वानुप्रासयोः संसृष्टिः ॥ ११ ॥
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रहसैवोपयातौ ।
हित्वा हेतीमल्लवन्मुष्टिघातं घ्नन्तौ बाहूवाहवि व्यासृजेताम् ॥१२॥
रोषावेशादिति ॥ कौचिद्योधौ रोषावेशाद्रोषपारवश्यादाभिमुख्येन रंहसा वेगेनेवोपयातौ मिथः प्रत्यासन्नौ अत एव पाणिग्राहमन्योन्यं पाणिं गृहीत्वा । 'द्वितीयायां च' (३।४।५३) इति णमुल्प्रत्ययः । हेतीः शस्त्राणि हित्वा त्यक्त्वा ।