दुर्मुखोऽप्यशिक्षितमुखोऽपि वक्रं हर्तुमपाक्रष्टुं नाशकन्न शक्तः । शकेर्लुङि 'पुषादि- (३।१।५५) इति च्लेरङादेशः । शिक्षितो हि शिक्षावशादबद्धोऽपि बद्धवदास्ते, अशिक्षितस्तु निबद्धोऽपि झटिति मुखमपहरतीति भावः । अपिर्विरोधे । अत एव विरोधाभासोऽलंकारः ॥ २२ ॥
कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म ।
कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनो ह्रेपयन्ति २३
कुन्तेनेति ॥ आजानेयः कुलीनाश्वः । 'आजानेयाः कुलीनाः स्युः' इत्यमरः । 'शुभ्रादिभ्यश्च' (४।१।१२३) इति ढक् प्रत्ययः । सादिना अश्वारोहेण कर्त्रा । उच्चैरुन्नतेन कुन्तेन प्रासेन करणेन हन्तुं प्रहर्तुमिष्टादभिप्रेताद्दन्तिनो न त्रस्यति स्म न त्रस्तः । 'वा भ्राश-' (३।१।७०) इत्यादिना श्यन्प्रत्ययः । तथा हि-जात्याः कुलीनाः । भवार्थे यत्प्रत्ययः । कीर्तये उदारं कर्म महापौरुषं कर्तुं कामो येषां तान्कर्तुकामान् । 'तुं काममनसोरपि' इति मकारलोपः । स्वमेषामस्तीति स्वामिनो भर्तृन् । 'स्वामिनैश्वर्ये' (५।२।१२६) इति निपातः । ह्रेपयन्ति लजयन्ति किम् । न ह्रेपयन्तीत्यर्थः । 'अर्तिह्री-' (७।३।३६) इत्यादिना पुगागमः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ २३ ॥
जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः ।
नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि॥२४॥
जेतुमिति ॥ जेतार एव जैत्रा जयशीलाः । जेतृप्रकृतेः प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः । लोकं जनमधः पश्यन्तः स्वयमुपर्यवस्थानाल्लोकमधोदेशे पश्यन्तः, अधःकृतं मन्यमानाश्च । अस्तेषुजालाः क्षिप्तशरनिकराः त्रासहीना दुर्गस्थत्वान्नि- र्भीका नागारूढा गजारोहास्त्रस्यन्ति गच्छन्तीति त्रसानि जङ्गमानि । 'चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्' इत्यमरः । पार्वतानि पर्वतसंबन्धीनि दुर्गाणि । गिरिदुर्गाणीत्यर्थः । श्रयन्तोऽधितिष्ठन्त इत्युत्प्रेक्षा। तेष्वेवंभूता एवेति भावः । अरिसैन्यैः कर्तृभिः जेतुं न शेकिरे । अशक्ता बभूवुरित्यर्थः । शकेः कर्मणि लिट् । अत्र मनुः–'धनुर्दुर्ग महीदुर्गमब्दुगं वनमेव च । नृदुर्ग गिरिदुर्ग च समाश्रित्य वसेन्नृपः ॥ सर्वेणैव प्रकारेण गिरिदुर्ग समाश्रयेत् । तेषां हि बहुगुण्येन गिरिदुर्ग विशिष्यते ॥' (मनु० ७।७०,७१) इति ॥ २४ ॥
विष्वद्रीचीविक्षिपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।
बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥२५॥
विष्वगिति ॥ एकः कोऽपि वीरः । विष्वगञ्चतीति विष्वद्रीचीः सर्वव्यापिनीः । विष्वग्देवयोश्च टेरद्चञ्चतावप्रत्यये' (६।३।९२) इति टेरद्चादेशः धातोरप्यञ्चतेरुपसंख्यानात् 'उगितश्च' (४।१।६) इति ङीप् ‘अचः' (६।४।१३८)इत्यकारलोपे 'चौ' (६।३।१३८) इति दीर्घः । सैन्यानि वीचिरिव सैन्यवीचीरित्युपमितसमासः । सिन्धौ वेति लिङ्गाद्विक्षिपन्नपाकुर्वन् अन्तराजिमध्ये क्वापि दूरं प्रयातमिष्टं बन्धुं दिदृक्षुर्द्रष्टुमिच्छुः सन् । दृशेः सन्नन्तादुप्रत्ययः । क्वापि प्रयातं मग्नं गोभूमेर्मण्डलं भूगोलं दिदृक्षुराद्यो वराहः सिन्धौ वा समुद्रे इव ।