पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५५
अष्टादशः सर्गः ।

 आकम्प्राग्रै: केतुभिः संनिपातं तारोदीर्णग्रैवनादं व्रजन्तः ।
 मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्खनन्ति स्म नागाः॥३७

 आकम्प्रागैरिति ॥ आकम्प्राणि दन्तोत्खननसंक्षोभाद्भृशं कम्प्राण्यग्राणि येषां तैः केतुभिर्ध्वजैः संनिपातं संघर्षं व्रजन्त इति दुःखहेतूक्तिः । नागा गजा- स्तारमुच्चैरुदीर्ण उत्पन्नः ग्रैवाणां ग्रीवासूत्पन्नानां शृङ्खलभूषणादीनां नादो यस्मि- कर्मणि तत्तथा अन्यद्विपानां प्रतिगजानाम् अङ्गे गाढं मग्नानन्तःप्रविष्टान्दन्तान् दुःखादुत्खनन्ति स्म । तेषां गाढमग्नत्वात्स्वयं केतुभाराक्रान्त्वाच्च कृच्छादुज्ज- ह्रुरित्यर्थः । अत्रोक्तभारमज्जनयोर्विशेषणगत्या दुःखोत्खननहेतुत्वात्काव्यलिङ्गम् ३७

 उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।
 शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ ३८ ॥

 उत्क्षिप्येति ॥ ईषे लाङ्गलदण्डाविव दन्तौ यस्य स ईषादन्तो महादन्तो दन्ती । 'ईपा लाङ्गलदण्डः स्यात्' इत्यमरः । प्रस्फुरन्तं प्राणोत्क्रमणदुःखादु- ल्लसन्तं शात्रवस्येदं शात्रवीयं कुञ्जरं रदाभ्यां दन्ताभ्यां उच्चैरुत्क्षिप्योर्ध्वमुद्यम्य श्र्ङ्गे शिखरे प्रोतः स्यूतः प्रावृषेण्यः प्रावृषि भवोऽम्बुदो यस्य तस्य । 'प्रावृष एण्यः' (४।३।१७) इत्येण्यप्रत्ययः । उर्वीधरस्य गिरेः साम्यं सादृश्यं स्पष्टं प्रापत् । आप्नोतेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः ॥ ३८ ॥

 भन्नेऽपीभे स्वे परावर्त्य देहं योद्धा सार्धं व्रीडया मुञ्चतेषून् ।
 साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ॥३९॥

 भन्नेऽपीति ॥ स्वे स्वकीये इभे गजे भग्नेऽपि देहं स्वाङ्गं परावर्त्य प्रतिप- क्षाभिमुखमावर्त्य । वृतेण्य॑न्ताल्लयप् । अण्यन्तस्त्वपपाठः । अकर्मकस्य कर्मानन्व- यात् । व्रीडया सामिषून्मुञ्चता। इषुमोक्षणेन स्वगजभङ्गव्रीडां निरस्यतेत्यर्थः । योद्धा भग्नेभस्थेन भटेन कर्त्रा अभीक्ष्णं दून इषुभिस्तप्तः । 'ल्वादिभ्यः' (८।२। ४४) इति निष्ठानत्वम् । अनुबध्नातीत्यनुबन्धी वारणो यन्तुः प्रतिगजारोहस्य संमदेन साकं स्वेभजयजन्येन हर्षेण सह । 'प्रमदसंमदौ हर्षे' (३।३।६८) इति निपातः । प्रत्यरोधि प्रतिरुद्धः । तत्प्रतिरोधेन तत्संमदस्यापि प्रतिरोधव्याप्तेरिति भावः । 'साकं साधं समं सह' इत्यमरः । अत्र व्रीडितेषुमोक्षयोः संमदयन्तृ- प्रतिरोधयोश्च कार्यकारणयोस्तत्पौर्वापर्यविपर्ययरूपातिशयोक्त्या सहभावोक्तेः सहोक्तिः संकीर्यते ॥ ३९ ॥

 व्याप्तं लोकैर्दुःखलभ्यापसारं संरम्भित्वादेत्य धीरो महीयः ।
 सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः॥४०॥

 व्याप्तमिति ॥ वारणः कश्चिद्दन्ती संरम्भित्वात्क्रोधित्वात् । 'संरम्भः संभ्रमे कोपे' इति विश्वः । धीरो निर्भीकः सन् एत्यागत्य महीयो विपुलं लोकैर्जनैः, अन्यत्र भुवनैश्च व्याप्तम् । 'लोकस्तु भुवने जने' इत्यमरः । अतो दुःखलभ्योऽप