सारोऽपसरणं यत्र तत्सेनामध्यं प्राक् पुरा आदिदेवस्य विष्णोः उदरान्तरुदराभ्यन्तरं ब्रह्मा स्रष्टेव गाहते म प्रविवेश । पुरा किल बाह्यं सिसृक्षुर्ब्रह्मा पूर्वसृष्टिदिदृक्षया विष्णोः कुक्षि प्राविशदिति पौराणिकी कथा । केचिद्ब्रह्मा ब्राह्मणो मार्कण्डेय इति व्याचक्षते, सोऽपि भगवन्महिमावलोकनकौतुकात्तदनुज्ञया महाप्रलये तदुदरं प्रविश्य बभ्रामेत्यागमः । 'ब्रह्मा विप्रः प्रजापतिः' इत्यमरः। उपमालंकारः॥
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।
निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥४१॥
भृङ्गेति ॥ भृङ्गश्रेणीव श्यामभासां कृष्णवर्णानां नाराचानामयोमयेषुविशे- षाणां समूहैः विद्धो नीरन्ध्रो निर्विवरो देहो यस्य सः । तथापि निर्भीकत्वादाहवेनाहतेच्छः अव्याहतोत्साहः अत एव हृष्यन्मोदमानो हस्ती हृष्टरोमेव हर्षात्पुलकित इवेत्युत्प्रेक्षा । 'हृषेर्लोमसु' (७।२।२९) इति विकल्पादिडभावः । रेजे शुशुभे । 'फणां च सप्तानाम्' (६।४।१२५) इति विकल्पादेत्वाभ्यासलोपौ ॥४१॥
आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।
निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा॥४२॥
आताम्रेति ॥ रोषभाजः क्रुद्धस्य नागराजस्य महेभस्य कटान्ताद्गण्डस्थला- निश्च्योतन्ती प्रागेव स्रवन्ती दानस्य मदस्य धारा आताम्राभा क्रोधादरुणवर्णा जज्ञे जाता । आहो धूर्गतेन पुरोगतेन यन्त्रा मार्गणे शरे आशूत्खाते लोहितस्य क्षतजस्येव धारा जज्ञे । जनेः कर्तरि लिट् । किमियं क्रोधारुणा मदधारा शरो- द्धरणजन्या रक्तधारा वेत्युभयकारणसंभवात्सादृश्याच्च संशयः, स च विकल्पित- सादृश्यमूल इत्यलंकारः ॥ ४२ ॥
क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।
सैन्यैरन्यस्तत्क्षणादाशशङ्के खर्गस्योच्चैरर्धमार्गाधिरूढः ॥ ४३ ॥
क्रामन्निति ॥ मृत्युशय्यातलस्यान्तकपर्यङ्करूपस्य । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । ईषादण्डौ दारुविशेषौ तत्सदृशौ । आयतावित्यर्थः । दन्तिनो दन्तौ । सहसा वर्तत इति साहसिकः । 'ओजःसहोम्भसा वर्तते' (१।४।२७) इति ठक् प्रत्ययः । तस्य भावात्साहसिक्यात्क्रामन् । साहसवानित्यर्थः । अन्यस्तत्क्षणा- दुच्चैरूर्ध्वस्य स्वर्गस्य अर्धश्चासौ मार्गश्चेति तदर्धमार्गाधिरूढ इति सैन्यैराशशङ्के उत्प्रेक्षित इत्युत्प्रेक्षा ॥ ४३ ॥
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।
खड्गाघातैर्दारितादृन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ४४
कुर्वन्निति ॥ ज्योत्स्नाविप्रुषां तुल्यरूपः चन्द्रिकाबिन्दुस्वरूपः तारः शुद्धः । 'तारो मुक्तादिसंशुद्धौ' इति विश्वः । खड्गाघातैर्दारितादृन्तिकुम्भात्प्रोच्छलन्नुत्पतन् मौक्तिकौघो मुक्तापुञ्जो द्यामाकाशं ताराजालसारां नक्षत्रशबलितां तारकितां कुर्वन्नित्युत्प्रेक्षा । 'सारः शबलपीतयोः' इति विश्वः । आभाति स्म बभौ ॥ ४४ ॥